ष्ठाने । यत्तु 'नैकस्मिन्क्रियमाणे तु नाना कर्म समाचरेत्' इति हेमाद्रौ वचनं तत्सहैवानुष्ठाननिषेधकं न तु तन्त्रस्येति बोध्यम् । अत एव हेमाद्रिणाऽमावास्यानिमित्तकं संक्रान्तिनिमित्तकं युगादिनिमित्तकं चेत्येतानि श्राद्धानि तन्त्रेण करिष्य इत्येतादृशं संकल्पवाक्यमुक्तम् । प्रसङ्गे तु महातन्त्रवतोऽमाश्राद्धादेरेवोल्लेखो न प्रसङ्गिनः संक्रान्त्यादिश्राद्धस्य । वस्तुतस्तु अमाश्राद्धे विशेषग्रहणात्प्रसङ्ग एवोचितः । जाबालिवचनमप्यत्रास्ति--
"श्राद्धं कृत्वा तु तस्यैव पुनः श्राद्धं न तद्दिने । |
कात्यायनवचनमपि--
"द्वे बहूनि निमित्तानि जायेरन्नेकवासरे । |
नैकः श्राद्धद्वयं कुर्यादिति निषेधस्तु श्राद्धं कृत्वा तु तस्यैवेत्येकवाक्यतयैकोद्देश्यकैककालिकैककर्तृकश्राद्धस्यैव पुनःप्रयोगनिषेधकमिति न तद्विरोधोऽपि । अत एव हेमाद्रिणोक्तम्--उदाहृतनिषेधस्तु श्रद्धाजडारभ्यमाणैकनिमित्तकश्राद्धावृत्तिविषय इत्युक्तम्(इति) । यत्तु त्रिप्रायमेके श्राद्धमुपदिशन्तीति धर्मसूत्रवचनं [ तत् ] श्राद्धं श्राद्धसंबन्धि यावदङ्गजातं त्रिवारं कर्तव्यं न तु स्वातन्त्र्येण सर्वं श्राद्धं त्रिवारं कर्तव्यमित्येतदभिप्रायेणैव नेयं विरोधपरिहाराय ।
कालादर्शे--
"नित्यस्य चोदकुम्भस्य नित्यमासिकयोरपि । |
अत्र नित्यदर्शयुगादिमन्वाद्यलभ्ययोगश्राद्धेषु सपत्नीकाः पितरो देवताः । उदकुम्भमासिकाब्दिकेषु त्वपत्नीका इति देवताभेद इत्याशयः । यत्र त्वान्वष्टक्यादौ नवदैवत्यविधानात्केवलानामेव पित्रादीनां देवतात्वं तत्राऽऽन्वष्टक्यादिना मासिकाब्दिकयोरपि प्रसङ्गसिद्धिः । एवं सपिण्डकश्राद्धेनापिण्डकस्य