पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०३४
[श्राद्धसंपाते निर्णयः]
भट्टगोपीनाथदीक्षितविरचिता--

अथ श्राद्धसंपाते निर्णयः ।

 तत्र भृगुः--

"एककाले गतासूनां बहूनामथवा द्वयोः ।
तन्त्रेण श्रपणं कुर्याच्छ्राद्धं चैव पृथक्पृथक् ॥
पूर्वकस्य मृतस्याऽऽदौ द्वितीयस्य ततः परम् ।
तृतीयस्य ततः कुर्यात्संनिपाते त्वयं क्रमः" इति ॥

 यदा पितृमातृभ्रात्राद्यनेकसांवत्सरिकाणां युगपत्संनिपातस्तदा पितुः श्राद्धं ततो मातुस्ततश्चान्येषामिति प्रधानोपसर्जनतरतमभावेन सांवत्सरिकं कुर्यादित्यर्थः । पूर्वकस्य संबन्धासन्नस्य द्वितीयस्य ततो दूरसंबन्धस्य तृतीयस्य ततोऽपि दूरतरस्येत्येवं संबन्धानुसारेण क्रमेण सर्वेषामेषां सांवत्सरिकश्राद्धं कुर्यादित्यर्थः । ऋष्यशृङ्गेणाप्ययमेवार्थ उक्तः--

"भवेद्यदि सपिण्डानां युगपन्मरणं तदा ।
संबन्धासत्तिमालोच्य तत्क्रमाच्छ्राद्धमाचरेत्" इति ॥

 एतच्च श्राद्धं तेषामपुत्रत्वे ।

 अत्रिः--

"बहूनामथवा द्वाभ्यां श्राद्धं चेत्स्यात्समेऽहनि ।
तन्त्रेण श्रपणं कृत्वा पृथक्श्राद्धानि कारयेत्" इति ॥

 कार्ष्णाजिनिः--

"पित्रोः श्राद्धे समं प्राप्ते नवे पर्युषितेऽपि वा ।
पितृपूर्वं पुनः कुर्यादन्यत्राऽऽसत्तियोगतः" इति ॥

 अत्र पितृपूर्वमित्यनेन मातुः पूर्वं मरणेऽपि पितृश्राद्धं पूर्वं पश्चान्मातुः श्राद्धमित्युच्यते । विप्रकृष्टस्य पूर्वं मरणे संनिकृष्टस्य पश्चान्मरणेऽपि संनिकृष्टस्याऽऽदौ पश्चाद्विप्रकृष्टस्येति पूर्वोक्तार्थकं ज्ञेयम् ।

 पार्वणैकोद्दिष्टयोर्युगपत्प्राप्तावाह जाबालिः--

"यद्येकत्र भवेयातामेकोद्दिष्टं च पार्वणम् ।
पार्वणं त्वभिनिर्वर्त्य एकोद्दिष्टं समाचरेत्" इति ॥

 अत्रैकोद्दिष्टमभिनिर्वर्त्य पार्वणं समाचरेदित्यन्वयो युक्तः । क्रमानुरोधेन कालबाधस्य सिद्धान्तविरुद्धत्वात् । यत्रैकेन पाकेनानेकश्राद्धानुज्ञा तत्र दर्शादौ पितृश्राद्धमातामहश्राद्धवत्तन्त्रेणैवानुष्ठानमुक्तं गारुडे--

"एकेनैव तु पाकेन श्राद्धानि कुरुतेऽत्र हि ।
विकिरं त्वेकतः कुर्यात्पिण्डान्दद्यात्पृथक्पृथक्" इति ॥

 एवं च यदाऽनेकोद्देश्यकानामपि श्राद्धानां कालैक्ये तन्त्रेणानुष्ठानं तदा किं वक्तव्यमेकस्मिन्कालेऽनेकनिमित्तसमवाय एकोद्देश्यकश्राद्धानां तन्त्रेणानु