एतच्च सांवत्सरिकादिष्वपि, मातुः श्राद्ध इति सामान्यतः श्रवणादिति केचित् । अत्र भर्तृमरणोत्तरमिदं न कार्यमिति केचिदाहुः ।
पठन्ति च-- 'श्राद्धं नवम्यां कुर्वीत मृते भर्तरि लुप्यते' इति ।
अन्ये तु–-एतस्य वचनस्य निर्मूलत्वात्कार्यमेवेत्याहुः ।
श्राद्धदीपकलिकायां ब्राह्मे--
"पितृमातृकुलोत्पन्ना याः काश्चित्तु मृताः स्त्रियः । |
अत्र देशाचाराद्व्यवस्था । इदं चानुपनीतेनापि कार्यम् । तदुक्तं शूलपाणौ मात्स्ये--अमावास्याऽष्टका कृष्णपक्ष इत्यभिधाय--
"एतच्चानुपनीतोऽपि कुर्यात्सर्वेषु पर्वसु । |
जीवत्पितृकेणाप्येतच्छ्राद्धं मातृक्षयाहश्राद्धवदविशेषात्सपिण्डमेव कार्यम् ।
यत्तु--
"मुण्डनं पिण्डदानं च प्रेतकर्म च सर्वशः । |
इति दक्षवाक्यत्वेन केनचिल्लिखितं तद्दक्षस्मृतौ निबन्धान्तरे चादर्शनादनाकरमिति केचित् । मात्रतिरिक्तपरमित्यन्ये । 'अन्वष्टकासु च स्त्रीणां श्राद्धं कार्यं तथैव च' इत्युपक्रम्य 'पिण्डनिर्वपणं कार्यं तस्यामपि नृसत्तम' इतिवचनं श्राद्धविधिना पिण्डदाने प्राप्ते पुनर्वचनं यस्य जीवत्पितृकत्वगुर्विणीपतित्वादिना पिण्डदानं निषिद्धं तस्यापि प्राप्त्यर्थमिति नवीनाः ।
संन्यस्तपितृको महालयश्राद्धं द्वादश्यामेव कुर्यात् ।
तदुक्तं वायवीये--
"संन्यासिनोऽप्याब्दिकादि पुत्रः कुर्याद्यथाविधि । |
स्मृत्यर्थसारे--
"एकोद्दिष्टं जलं पिण्डमाशौचं प्रेतसत्क्रिया[म्] । |
वपनमपि न कर्तव्यमिति कैश्चिदुक्तं तन्निर्मूलम् । परमहंसस्य वार्षिकादिकमपि न कार्यमिति शूलपाण्यादयः ।