पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मासिश्राद्धमासिकश्राद्धे]
९००७
संस्काररत्नमाला ।
( अशक्तौ सांकल्पिकविधिः )
 

अन्नेनासंभवे हेम्ना कुर्यादामेन वा सुतः" इति ॥
"अन्नेनैवाऽऽब्दिकं कुर्याद्धेम्ना वाऽऽमेन न क्वचित्" ।

 इति तु[१] ग्रहणदिनातिरिक्तविषयमिति निर्णयामृते ।

यत्तु--"ग्रहणात्तु द्वितीयेऽह्नि रजोदोषात्तु पञ्चमे"

 इति वचनं तन्महानिबन्धेष्वनुपलम्भान्निर्मूलमिति नवीनग्रन्थे ।

 विस्तृतपार्वणविधिना श्राद्धकरणाशक्तौ विवाहादिनिमित्तेन पिण्डदाननिषेधे च सांकल्पविधिरुक्तः स्मृत्यन्तरे--

"पिण्डो यत्र निवर्तेत मघादिषु कथंचन ।
सांकल्पि[२]तं तदा कार्यं नियमाद्ब्राह्मणादिभिः" इति ॥

 अत्र कथंचनेत्युक्त्याऽशक्तिकृतपिण्डदाननिवृत्तिरनुगृह्यते ।

संग्रहे--

"अङ्गानि पितृयज्ञस्य यदा कर्तुं न शक्नुयात् ।
संकल्पश्राद्धमेवासौ कुर्यादर्घ्यादिवर्जितम्" इति ॥

 सांकल्पिकस्वरूपमुक्तं संवर्तेन--

"समग्रं यस्तु शक्नोति कर्तुं नैवेह पार्वणम् ।
अपि संकल्पविधिना काले तस्य विधीयते ॥
पात्रं भाज्यस्य चा[३]न्नस्य त्यागः संकल्प उच्यते ।
तत्प्रयुक्तो विधिर्यस्तु स तेन व्यपदिश्यते ॥
तावन्मात्रेण संबद्धं श्राद्धं सांकल्पमुच्यते" इति ।

 अत्र यद्यन्निषिद्धं तदाह व्यासः--

"सांकल्पं तु यदा कुर्यान्न कुर्यात्पात्रपूरणम् ।
नाऽऽवाहनाग्नौकरणे पिण्डांश्चैव न दापयेत्" इति ॥

 दापयेदिति स्वार्थे णिच् । पात्रपूरणमर्घ्यपात्रपूरणम् । आवाहननिषेधः समन्त्रकावाहननिषेधपरः । तेन तूष्णीं भवत्येवेति हेमाद्रिः । स्मृत्यन्तरे तु "विकिरं न च दापयेत्' इति तुरीयः पादः ।

 वसिष्ठः--

"आवाहनं स्वधाशब्दं पिण्डाग्नौकरणे तथा ।
विकिरं पिण्डदानं च सांकल्पे षड्विवर्जयेत्" इति ॥

 पिण्ड उच्छिष्टपिण्डः ।


  1. ख. ङ. च तु मरण ।
  2. ङ. ल्पिकं त ।
  3. ख. च. रान्नस्य ।