पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मासिश्राद्धमासिकश्राद्धे]
९९७
संस्काररत्नमाला ।
(मासिकश्राद्धाग्नौकरणाग्निनिर्णयः)
 

माहुः । इष्टिषु, इष्टिश्राद्धेषु । इष्टिश्राद्धमाधानसोमयागादौ क्रियमाणमिति केचित् । कर्माङ्गश्राद्धमिष्टिश्राद्धम् । कर्माङ्गश्राद्धं तु--

"निषेककाले सोमे च सीमन्तोन्नयने तथा ।
ज्ञेयं पुंसवने श्राद्धं कर्माङ्गं वृद्धिवत्कृतम्"

 इतिवचनोपात्तं ग्राह्यमिति हेमाद्रिः । पुरूरवआर्द्रवमु[१](सौ)सत्यौ च(विश्वे देवास्तु) पार्वण इति सान्तोऽपि क्वचित्पाठः । पुरूरवोमार्द्रवसौ विश्वे देवा इति व्युत्पत्तिवादे द्वितीयदेवनाम मादि[२] ( [३]फरहितभिकारवच्च ) पठितं तत्र मूलं चिन्त्यम्)

अथ मासिश्राद्धाग्नौकरणाग्निनिर्णयः ।

 तच्चाग्नौकर[४]णं सर्वाधानिना दक्षिणाग्नौ कार्यम् । अर्धाधानिना स्मार्ताग्निमता च गृह्याग्नौ । प्रोषितकर्तृकामश्राद्धे कदाचिल्लौकिकाग्न्यभावे द्विजपाणावुदके वेति । तदुक्तं विष्णुधर्मोत्तरे--

"आहिताग्निस्तु जुहुयाद्दक्षिणेऽग्नौ समाहितः ।
अनाहिताग्निश्चौपसदेऽग्न्यभावे द्विजेऽप्सु वा" इति ।

 अत्राऽऽहिताग्निः सर्वाधानीनि केचित् । अस्मिन्मतेऽर्धाधानिनो गृह्याग्निसद्भावात्तत्रैवाग्नौकरणं न दक्षिणाग्नाविति । आहिताग्निः सर्वाधान्यर्धाधानी चेत्यस्मिन्मते तु गृह्याग्निसद्भावेऽपि दक्षिणाग्नावेव न तु गृह्याग्नौ । पिण्डपितृयज्ञप्रकरणे दक्षिणाग्नौ जुहोतीतिवचनादग्नौकरणप्रकरणे च याज्ञवल्क्येन जुहुयात्पितृयज्ञवदितिस्मरणादिति । अतिदेशेनोपदेशबाधो न्याय्य इति शंभुशङ्खधरप्रभृतयो दक्षिणाग्न्यधिकरणत्ववादिनः । हेमाद्रिरप्येवम् । तेनैतन्मते सर्वाधान्यर्धाधान्याहिताग्न्योरमावास्याश्राद्धे विहृतदक्षिणाग्निसद्भावाद्दक्षिणाग्नावेवाग्नौकरणहोमः । तिथ्यन्तरश्राद्धे तु विहृतदक्षिणाग्नेरसंभवे सर्वाधानिनो लौकिकाग्नावर्धाधानिनश्चौपासनाग्नावग्नोकरणहोम इति । उपदेशेनातिदेशबाधं मन्यमानोऽपरार्कस्तु पितृयज्ञवादित्यतिदेशसामान्यवचनं कर्म स्मार्तमित्युपदेशसामान्यवचनानुरोधेन दक्षिणाग्निव्यतिरिक्तप्राकृतपदार्थविषयम् । अतोऽर्धाधानिनो गृह्याग्नावेव होमः, [इत्याह] । स्मृत्यर्थसारचन्द्रिका [कार]विज्ञानेश्वरादयोऽप्येवम् ।

एतन्मतमयुक्तम् । फलचमसेनेव सोमस्य शरैरिव च कुशानां गृह्याग्निसत्त्वेऽपि दक्षिणाग्निना तद्बाधस्यैवोचितत्वात् । आहिताग्नेरमावास्याश्राद्धे विहृतदक्षि


  1. क. पुस्तके वसौ वसुसत्वौ च पा इति शोधितः पाठः ।
  2. क. दि रेफ इति शोधितः पाठः । च. दि पुर ।
  3. धनुश्चिह्नान्तर्गतमसंगतम् ।
  4. ङ. रणमनाहिताग्निना ।