पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९९०
[मासिश्राद्धमासिकश्राद्धे]
भट्टगोपीनाथदीक्षितविरचिता--

राह्णो द्वेधाविभक्तस्याह्नो द्वितीयभाग एव ।) मासिश्राद्धसूत्रं त्वित्थम् । 'मासिश्राद्धमपरपक्षस्योत्तमेऽहनि' इति । कर्तव्यमिति शेषः । उत्तमेऽहन्यमावास्यायाम् । अपराह्णोऽत्र प्रशस्तः कालः । तदुक्तं धर्मसत्रे-- 'अपराह्णः श्रेयान्' इति । मासिश्राद्धेऽपराह्णः श्रेयान्प्रशस्त इत्यर्थः । मासिकश्राद्धसूत्रं गृह्ये-- 'अमावास्यायामपराह्णे मासिकम्' इति । मासि भवं श्राद्धं मासिकं तदमावास्यायां तिथावपराह्णे कर्तव्यमित्यर्थः । सर्वेषु कृष्णपक्षस्यामावास्याव्यतिरिक्तेष्वयुग्मदिवसेषु यस्मिन्कस्मिंश्चि[१]द्दिवसेऽपि वा पाक्षिकी श्राद्धकर्तव्यतोक्ता गृह्ये-- 'अपरपक्षस्य वाऽयृक्ष्वहःसु' इति । अपरपक्षस्यायुक्ष्वहःसु वेत्यन्वयः । अत्रा[२]प्यपराह्ण इत्यनुवर्तते । वाशब्दात्पाक्षिकत्वम् । एतदेव कृष्णपक्षश्राद्धमित्युच्यते । धर्मसूत्रे पुनः कृष्णपक्षश्राद्ध[३]प्रदर्शनं फलं प्रदर्शयितुमनुवादः । प्रथमेऽहनि स्त्रीप्राय[४]श्चित्तमित्यादिकं तु तिथिविशेषेण फलविशेष[५]प्रदर्शनार्थम् । मासिकश्राद्धविधिस्तु--पितृभ्योऽन्न संस्कृत्येत्यारभ्य सुवीरा इ[६]त्यन्तेन सूत्रेणोक्तः । उत्तर[७]त्र विनियोगादेव पित्रर्थतासिद्धौ पितृभ्योऽन्न संस्कृतयेत्यत्र पितृग्रहणं पित्रादित्रय एव संप्रदानपदार्था अत्रेति न, किं तु अन्येऽपि स्मृत्युक्ता अङ्गभूताः प्रधानीभूताश्च संप्रदानपदार्था अत्र सन्तीतिज्ञापनार्थम् । तेन शास्त्रान्तरप्रोक्तानामङ्गभूतानां दे[८]वानां प्रधानीभूतानां मातामहादीनां चात्र प्राप्तिः सिद्धा भवति[९] । एवमष्टकादिषु । अथवा पितृग्रहणस्य प्रयोजनं मातामहादीनां प्रापणमात्रम् । देवानां प्राप्तिस्तु यथोपदेशं कुरुत इति वचनेन वैश्वदेवव्यतिरिक्तस्थले शास्त्रान्तरोक्तोपसंहार[१०]स्य ज्ञापितत्वाद्भवति[११] । अत्र करणेऽष्टकादिष्वपि करणं नान्यथेति द्रष्टव्यम् । दक्षिणाग्रानितिवचनं प्रागग्रत्वोदगग्रत्वयोर्बाधनार्थम् । ब्राह्मणानामन्त्रयते शुचीनागन्तुकसहजदोषरहितान्नियमवतश्च मन्त्रवतो विद्यावतो नियमवत इत्येके । समाङ्गान्संपूर्णाङ्गान् । अयुजस्त्रिप्रभृत्ययुग्मसंख्याकान् । इदं च पितृविषयम् । देवविषये तु समसंख्यैव ब्राह्मणानां स्मृतितो द्रष्टव्या । योनिगोत्रम[१२]न्त्रासंबन्धान्, योनिगोत्रमन्त्रैरात्मनोऽसंबन्धान् । ( [१३] योनिसंबन्धा मातुलमातामहादयः । गोत्रसंबन्धाः


  1. ख. ङ. श्चिद्युग्मदिवसे वा ।
  2. च. त्राप ।
  3. ख. द्धविधानं सर्वतिथिषु श्राद्धविधानाय । प्रथ । ङ. द्धविधानं महालयश्राद्धविधानाय । प्रथ ।
  4. क. ख. ङ. यमि ।
  5. ख. ङ. षविधायकम् ।
  6. च. इतीत्य ।
  7. क. च. रवि ।
  8. च. ताः सं ।
  9. च. देवतानामत्र ।
  10. च. ति । मातामहादीनां प्राप्तिस्तु वैश्वदेवप्रकरणे य ।
  11. च. रस्यापि पक्षे कर्तव्यत्वस्य ज्ञा ।
  12. क. ख. ङ. मन्त्र ।
  13. धनुश्चिह्नान्तर्गतस्थाने च. पुस्तके--"योनिगोत्रमन्त्रासंबद्धानेति पाठः सुपाठः । संबद्धाः संबन्धविशिष्टाः । योनिसंबन्धो मातुलमातामहादीनाम् । गोत्रसंबन्धो गोत्राणाम् । मन्त्रसंबन्ध ऋत्विक्शिष्याचार्यादीनाम् । एतद्व्यतिरिक्ता ये भवन्ति तानामन्त्रयत इत्यर्थः" इति वर्तते ।