पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मासिश्राद्धमासिकश्राद्धे]
९८७
संस्काररत्नमाला ।

र्विहोमाणामेष कल्प इति सूत्रैः क्रमेण सिध्यन्तीति[१] नातः कृत्स्नाङ्गोपदेशासंभव इति वाच्यम् । एतस्य होमविधेर्विलम्बोपस्थितत्वेन दुर्बलत्वात् । न च पिण्डपितृयज्ञस्थहोमविधिरेवात्र, केवलपितृसंबधित्वेन शीघ्रोपस्थितत्वात् । तथा च न कृत्स्नाङ्गोपदेशाभाव इति वाच्यम् । मुख्यपिण्डदानस्यैवानुक्तत्वेन कृत्स्नोपदेशस्य सर्वथाऽभावेन प्रकृतित्वासंभवस्य दुरुद्धरत्वात् । न च पिण्डदानाभाव एवास्त्विति वाच्यम् । आपरपक्षिकसांवत्सरिकादिषु तदभावापत्तेः । न चैतेष्वपि पिण्डदानाभावोऽस्त्विति वाच्यम् । तथा सति युगादिश्राद्धेषु पिण्डदाननिषेधानुपपत्तेः सकलस्मृतिसूत्रनिबन्धशिष्टाचारविरोधापत्तेश्चेति चेन्न । मासिश्राद्धे जुहुयाच्चेत्यत्रत्येन चकारेण पिण्डदानस्यापि सूत्रकृता संगृहीतत्वात् । न चैतस्मिन्पिण्डदाने मासिकश्राद्धीयपिण्डदानविध्यसंभवेन कथमेतदिति वाच्यम् । पिण्डपितृयज्ञतो होमविधिप्राप्तिवत्तत्रत्यपिण्डदान[२]स्यापि प्राप्तौ बाधकाभावात् । आतिदेशिकवचनाभावात्कथमेतयोः प्राप्तिरिति चेत् । हुत्वाऽग्नौ पितृयज्ञवत् । 'दद्याद्भुक्तेषु विप्रेषु त्रीन्पिण्डान्पितृयज्ञवत्' इति स्मृतित इति गृहाण । वस्तुतस्तु सूत्रकृता मासिश्राद्धस्य धर्मसूत्रे प्रणयनात्स्मृत्युक्तस्यैव सकलविधेर्ग्राह्यत्वं प्रदर्शितम् । प्रतिज्ञातं चास्ति पूर्वं सामयाचारिकान्धर्मान्व्याख्यास्याम इति । नातो होमपिण्डदानहीनता । एवं च स्मृतिसिद्धधर्मातिदेशस्य स्मृतित एव सिद्धत्वान्न सांवत्सरिकादिष्वपिण्डकत्वाद्यापत्तिः । सूत्रे पितरो देवता ब्राह्मणस्त्वाहवनीयार्थं इत्येतदुपादानं तु मृतपित्रुद्देश्यको विप्रस्वीकाराङ्गको द्रव्यत्यागः श्राद्धमितिश्राद्धस्वरूपप्रदर्शनार्थम् । स्मृतित एव तिलादिद्रव्याणामपि प्राप्तावत्र वचनं तिलमाषव्रीहियवानामावश्यकत्वार्थम् । आपो मूलं फलानि चेति तु अतिसंकटे तिलादिश्राद्धद्रव्यालाभे फलमूलान्यपि तावत्पितृभ्यो देयानि, एतेषामप्यलाभे श्राद्धदिन उदकमपि तावद्देयं, तेनैव श्राद्धसिद्धिरितिप्रदर्शनार्थम् । उद्धरिष्याम्यग्नौ च करिष्यामीत्यादिधर्माणामत्र वचनमशक्तौ पिण्डदानरहित एतावाननुकल्पस्तत्रैत एक धर्मा आवश्यका इति बोधयितुम् । ननु--अतिसृष्ट उद्धरेज्जुहुयाच्चेत्यादिकमेवास्तु किमर्थं मन्त्रोपादानमिति चेन्न । स्मृतिष्वामन्त्रणानुज्ञामन्त्रयोरनेकविधत्वदर्शनेन सर्वेषामपि प्राप्तौ तत्रैतावेव विवक्षितावितिप्रदर्शनार्थं तस्यात्रोपादानात् । एवमर्घ्यादीनामपि विवक्षितार्थप्रदर्शनार्थमेवोपादानं द्रष्टव्यम् । ( [३] पितरो देवतेत्यादीनामुपादानं तु अशक्तौ पिण्डदानरहित एतावाननुकल्प इति बोधयितुम् । ) होमस्याप्यशक्तौ ब्राह्मणभोजनमात्रं कर्तव्यम् । एतज्ज्ञापयितुमेव होमविशेषविधेः


  1. ख. ङ. ति वा ।
  2. च. नविधेरपि ।
  3. धनुश्चिह्नान्तर्गतं च. पुस्तके नास्ति ।