पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९८६
[मासिश्राद्धमासिकश्राद्धे]
भट्टगोपीनाथदीक्षितविरचिता--

विधानस्य निर्हेतुकत्वापत्तेः । न चैतेषां पाक्षिकत्वेन प्राप्तये दूरविधानमिति वाच्यम् । तत्र द्रव्याणीत्यादिविधेरावश्यकत्वेन पाक्षिकत्वासंभवात् । ([१] न चैवं तत्र द्रव्याणीत्यादिविधेरावश्यकत्वेन पाक्षिकत्वासंभवेऽपि उद्धरिष्यामीत्यादिविधेराकाङ्क्षाभावेनानावश्यकत्वात्पाक्षिकत्वसंभवः । तथा च दूरविधानस्य सार्थक्ये सिद्धे किमर्थं भेदकल्पनमिति वाच्यम् । तथा सत्यपि )([२]योनिगोत्रमन्त्रासंबन्धान्नार्थापेक्षो भोजयेदित्यस्योभयत्रोपादानवैयर्थ्याप[३]त्तेस्तदवस्थत्वेन सार्थक्यासंभवेन,) एतेन माध्यावर्षं व्याख्यातम्, यथा मासिक इति वचनाभ्यां माध्यावर्षपूर्वेद्युःश्राद्धाष्टकान्वष्टकाव्यतिरिक्तश्राद्धेषु सांवत्सरिकादिषु मासिकश्राद्धातिदेशस्य निरासेनेतरस्य प्रकृतिभूतस्य श्राद्धान्तरस्य चाभावेन सांवत्सरिकादीनामङ्गहीनत्वपरिहारार्थं[४] च मासिकश्राद्धे भिन्नत्वकल्पनाया आवश्यकत्वा[५]त् । न चाऽऽस्तामङ्गहीनता । तादृशस्य कर्मण एवाभावात् । ([६]न च सांवत्सरिकश्राद्धादीनामङ्गहीनत्वपरिहारस्य दर्शश्राद्धेनैव संभवे किमर्थं मासिश्राद्धस्याङ्गहीनत्वपरिहारार्थं भेदकल्पनमिति वाच्यम् ।स्मृत्युक्तत्वाविशेषाद्विरोधाभावात्, असति बाधके धर्मिकल्पनातो धर्मकल्पनाया लघीयस्त्वाच्च मासिश्राद्धदर्शश्राद्धयोरभेदस्यैव कल्पनीयतया तेनैवाङ्गहीनत्वपरिहारसंभवात् । असति बाधक इति विशेषणान्न मासिश्राद्धमासिकयोरभेदापत्तिः । नात्र ब्राह्मणलक्षणस्योभयत्रोपादानवैयर्थ्यापत्तेरेव बाधकत्वात् )। अतोऽवश्यं भेदोऽङ्गीकर्तव्य एवेति सिद्धम् । एवं च गृह्योक्तं मासिकं गृह्योक्तश्राद्धानां प्रकृतिः । धर्मसूत्रोक्तं मासिश्राद्धं धर्मशास्त्रोक्तानां महालयादीनां शास्त्रान्तरोक्तानां सांवत्सरिकादीनामिति व्यवस्थाया वक्तुं शक्यत्वेन न सांवत्सरिकादिष्वङ्गहीनत्वापत्तिः । नन्वस्तु गृह्योक्तमासिकश्राद्धात्मासिश्राद्धं भिन्नं, परं तु तद्विकृतिर्वा प्रकृतिर्वा । न तावदाद्यः । गृह्यानुक्तानां श्राद्धानां परिसंख्यातत्वेन मासिकविकृतित्वाभावात् । नापि दर्शश्राद्धविकृतित्वं तस्यैवानुक्तेः । न द्वितीयः । कृत्स्नाङ्गोपदेशाभावात् । न च यावन्त्यङ्गान्युपदिष्टानि तावद्भिरेवाङ्गैः कृत्स्नाङ्गोपदेशोऽस्त्विति वाच्यम् । होमे देवतामन्त्रेतिकर्तव्यतानामनुक्तत्वेन कृत्स्नाङ्गोपदेशा[७]संभवात् । न चात्र होमाभावः । अतिसृष्ट उद्धरेज्जुहुयाच्चेति होमार्थानुज्ञाविशेषविधानेन तत्सत्त्वप्रदर्शनात् । न चैवमस्तु होमः । तत्र देवतामन्त्रेतिकर्तव्यतास्तु पितरो देवता, अमन्त्रास्वमु[८]ष्मै स्वाहेति सर्वद


  1. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  2. धनुश्चिह्नान्तर्गत नास्ति ख. पुस्तके ।
  3. ङ. पत्तेः । ए ।
  4. क. ख. ङ. थ. मा ।
  5. ख. ङ. त्वाच्च न ।
  6. धनुश्चिह्नान्तर्गतं ख. पुस्तके नास्ति ।
  7. च. शाभावा ।
  8. च. मुष्यै स्वा ।