पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९८४
[पिण्डपितृयज्ञप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

आगामिदर्शे सप्तहोतारं सर्वप्रायश्चित्तं च जुहुयात् । यदि पिण्डपितृयज्ञस्य द्वितीयादिप्रयोगः केनापि निमित्तेन मुख्यकाले न जायेत तदा गौणकाले कर्तव्यः । तत्र निदानसूत्रम्-- 'सर्वमहः प्रातराहुतेः स्थानं सर्वा रात्रिः सायमाहुतेः [१] पूर्णः पक्षो दर्शस्य कृष्णः पक्षः पूर्णमासस्य' इति । अत्र केषांचिदुपादानं तुल्यन्यायानां प्राप्त्यर्थम् । तेन चातुर्मास्यपर्वणां पशोराग्रयणस्य पिण्डपितृयज्ञस्य च परकालात्प्राक्प्रायश्चित्तपूर्विका क्रिया भवतीति धूर्तः ।

 अन्ये तु यावद्वचनं वाचनिकमिति न्यायेन निदानसूत्रोपात्तानामेवैष कालव्यपदेश इति । तेन पिण्डपितृयज्ञस्य न गौणकालेऽनुष्ठानमित्याहुः ।

 आगामिदर्शपर्यन्तं पूर्वपिण्डपितृयज्ञस्य गौणकालस्तत्राप्यननुष्ठान आगामिदर्शे सप्तहोतारं सर्वप्रायश्चित्तं च जुहुयात् । गौणकालेऽनुष्ठानेऽप्येतत्प्रायश्चित्तं पूर्वं कार्यमेव । तच्चेत्थम्--दर्शे पिण्डपितृयज्ञात्पूर्वं देशकालौ संकीर्त्य पिण्डपितृयज्ञलोपप्रायश्चित्तार्थं सप्तहोतृहोमं समस्तव्याहृतिहोमं च करिष्य इति संकल्प्य होमोपयुक्तपात्राण्यासाद्य पवित्रकरणाद्याज्यसंस्कारान्तं कृत्वा स्रुवेण दर्व्यां[२] चतुर्गृहीतं गृहीत्वाऽग्नेरपरिस्तृतत्वे तं परिस्तीर्यैकां समिधमभ्याधाय, महाहविरित्यस्य ग्रहसंज्ञकमन्त्रसहितस्य स्वयंभूर्वाचस्पतिर्ब्रह्मा यजुः । पिण्डपितृयज्ञलोपप्रायश्चित्ताज्यहोमे विनियोगः । 'ॐ महाहविः० पृथिव्यै स्वाहा' इति जुहोति । वाचस्पतये ब्रह्मण इदं न मम[३]

 ततः समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । पिण्डपितृयज्ञलोपप्रायश्चित्ताज्यहोमे विनियोगः । 'ॐ भूर्भुवः सुवः स्वाहा' इत्येकामाहुतिं जुहोति । प्रजापतय इदं न मम । ततोऽनाज्ञातजपादि कुर्यात् । त[४]तोऽन्तरितपितृयज्ञेन सह प्राप्तपितृयज्ञादि समानम् । ([५]अस्मिन्पक्षेऽन्तरितपितृयज्ञेन सहैतेन पितृयज्ञेन यक्ष्य इति संकल्पः । केवलं प्राप्तपितृयज्ञाद्येव नान्तरितपितृयज्ञ इत्यपि पक्षान्तरम् । यदि स्थालीपाकः पूर्वमनन्तरं पिण्डपितृयज्ञस्तत्र स्थालीपाकात्पूर्वमेवान्तरितपिण्डपितृयज्ञप्रायश्चित्तं कुर्यात् । पूर्वेद्युरन्वाधानपक्षे द्वितीयदि


  1. अत्र क. पुस्तकटिप्पण्यां 'पूर्वः' इति वर्तते ।
  2. च. र्व्या स्रुचि वा च ।
  3. च. म । उद्गातेत्येतदन्तं मनसा पा(प)ठनीयम् । त ।
  4. ङ. च. ततः प्रा ।
  5. धनुश्चिह्नान्तर्गतग्रन्थस्थाने च. पुस्तके 'स्रुचा होमपक्षे दर्विहोमधर्मेण होमः । ऋष्यादिस्मरणे विकल्पः । एतच्च प्रायश्चित्तं पिण्डपितृयज्ञात्ययेराप्तहोतारं जुहुयादिति बौधायनोक्तम् । कात्यायनोक्तं तु–-'पिण्डयज्ञात्यये चैव वैश्वदेवात्ययेऽपि च । भोजने पतितान्नस्य चरुर्वैश्वानरो भवेत्' इति वैश्वानरस्थालीपाकात्मकम् । तद्वा कार्यम्' इति ग्रन्थो वर्तते । ङ. पुस्तके तु धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ।