पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[पिण्डपितृयज्ञप्रयोगः]
९८३
संस्काररत्नमाला ।

दु० मनेनसम्' इत्यतिप्रणीतमग्निमुपतिष्ठते । भाष्यकृद्रीत्यौपासनाग्नौ होमकरणे तस्यैवोपस्थानम् । 'अभून्नो दूतो हविषो जातवेदा अवाड्ढव्यानि सुरभीणि कृत्वा । प्रादाः पितृभ्यः स्वधया ते अक्षन्प्रजानन्नग्ने पुनरप्येतु देवान्' इत्यतिप्रणीतमग्निमौपासनाग्नौ मेलयति ।

 ततः पात्राण्यद्भिरभ्युक्ष्य द्वे द्वे आसादनस्थानाच्चालयति स्फ्यस्थाल्यौ शूर्पकृष्णाजिने उलूखलमुसले इति ।

 ततः स्थाल्यां पिण्डान्निक्षिपति । मध्यमं पिण्डं प्रज्ञातं निक्षिपति । चतुर्थपिण्डपक्षे तमपि ।

 ततः स्थालीतो मध्यमं पिण्डमादाय 'अपां त्वौषधीना रसं प्राशयामि भूतकृतं गर्भं धत्स्व' इति मध्यमं पिण्डं पत्न्यै प्रयच्छति । पत्न्यनेकत्वे तं पिण्डं विभज्य[१] प्रतिपत्नि दद्यात् । 'आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषोऽसत्' इति सा प्राश्नाति । पत्न्यनेकत्वे सर्वा अपि मन्त्रेण प्राश्नीयुः । इदं च नित्यं कामपदाभावात्, इति वैजयन्तीकृत् । पत्न्या रजस्वलया प्रसूतयाऽऽशौचवत्या भक्षणं न कार्यम् । भक्षणाभावाद्दानमपि न । अजातरजस्कायै गतरजस्कायै च पत्न्यै न दद्यादिति रुद्रदत्तः । 'ये समानाः स० ये सजाताः' इति द्वाभ्यां सकृदाच्छिन्ना[२]न्यभ्युक्ष्यौपासनाग्नौ प्रक्षिपति[३] । ततः स्थालीस्थान्पिण्डानप्सु प्रक्षिपति ब्राह्मणं वा भोजयति । पत्न्याः पिण्डभक्षणायोग्यतायां तमपि पिण्डमेतयैव रीत्या प्रतिपादयेत् ।

 तत उपवीती भूत्वा कर्मेश्वरार्पणं कुर्यात् । पिण्डपितृयज्ञ एकोल्मुकस्य प्रणयनप्रभृत्या समाप्तेर्नाशे यदैव ज्ञाते तदैव तद्भस्म निष्काश्य गोमयेन तद्देशमुलिप्य रेखालेखनाद्युत्सेचनान्तं कृत्वा पुनस्तेनैव मन्त्रेण योनितस्तस्मिन्स्थानेऽग्निमतिप्रणीयैकोल्मुकनाशप्रायश्चित्तं करिष्य इति संकल्प्यौपासनाग्नौ संस्कृताज्येन 'ॐ भूर्भुवः सुवः स्वाहा' इत्येकामाहुतिं जुहुयात् । यद्यमावास्यायां पत्नी रजस्वला तदा तां गृहान्तरे संस्थाप्य तस्मिन्नेव दिनेऽपराह्णे पिण्डपितृयज्ञः कार्य इति रुद्रदत्तः । रामाण्डारस्तु पञ्चमदिवसादौ सर्वप्रायश्चित्तपूर्वकमतीतपिण्डपितृयज्ञं कुर्यादित्याह । प्रथमे पिण्डपितृयज्ञे पत्नी यदि रजस्वला तदाऽग्रिमदर्शे सप्तहोतारं हुत्वा पिण्डपितृयज्ञ आरब्धव्य इति शतद्वयीव्याख्यायाम् । अत्र प्रथमपिण्डपितृयज्ञग्रहणाद्द्वितीयादिप्रयोगे पत्न्यां रजस्वलायामपि पिण्डपितृयज्ञो भवत्येवेति गम्यते । सूतकप्रतिवन्धस्तु सर्वत्राप्यविशिष्ट इति द्रष्टव्यम्[४]


  1. च. ज्य सर्वाभ्यः पत्नीभ्यो दं ।
  2. च. न्नानभ्यु ।
  3. च. ति । प्रक्षेपणे मन्त्रः । त ।
  4. ङ. च. भू । य ।