पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९८०
[पिण्डपितृयज्ञप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

अस्मिन्होमे पितृतीर्थस्यानियमः । अतिप्रणीत एवायं होम इति वैजयन्तीकृत् । औपासनेऽतिप्रणीते वेति विकल्प इति भाष्यकृत् । औपासनाग्नौ होमपक्षे तु नातिप्रणीताग्नेः परिस्तरणम् । द्वितीयाहुत्यवशेषितसंलग्नसिक्थाभावे लोप इति केचित् । स्थालीपाकात्कानिचित्सिक्थान्युपहत्य तेन तृ(तैस्तृ)तीयामाहुतिं जुहोतीत्यन्ये । उभयपक्षेऽपि प्रायश्चित्तार्थमनाज्ञातत्रयजपविष्णुस्मरणे कर्तव्ये । ततस्तूष्णीं मेक्षणमनुप्रहरति । ततः प्राचीनावीती 'अपहता असुरा रक्षा सि वेदिषदः' इत्यवहननदेशे दक्षिणापवर्गामाग्नेय्यपवर्गां वा वेदिं सकृत्स्फयेनैकरेखयोल्लिख्य 'उदरितामवर हवेषु' इत्यद्भिरवोक्षति । प्रोक्षणीसंस्कारनिवृत्त्यर्थमद्भिरित्युक्तम् । 'सकृदाच्छिन्नं ब० गैः सह' इति सकृदाच्छिन्नेन बर्हिषा वेदि स्तृणाति ।

 ततस्तत्र स्थालीपाकमासादयति । तद्दक्षिणत आञ्जनमभ्यञ्जनं कशिपूपबर्हणमुदकुम्भं च बर्हिष्येव प्रतिष्ठापयति । आञ्जनं कज्जलम् । अभ्यञ्जनं तैलम् । दध्न उपरितनः स्नेहो वा । कशिपु मञ्चः सतूलिकः । उपबर्हणं शिरस्यु(उ)पधानम् । उदकेन पूर्णः कुम्भ उदकुम्भः । जीवत्पितृकस्य नतत् । तस्य पिण्डदानाभावात् । एतावतर्त्विग्विरमति ।

 अथ यजमानः प्राचीनावीती सव्यं जान्वाच्य सकृदाच्छिन्ने बर्हिषि अर्वाचीनपाणिर्दक्षिणापवर्गांस्त्रीनुदकाञ्जलीन्निनयति । 'मार्जयन्तां पितरः सोम्यासः' इति प्रथमम् । 'मार्जयन्तां पितामहाः सोम्यासः' इति द्वितीयम् । 'मार्जयन्तां प्रपितामहाः सोम्यासः' इति तृतीयम् । 'पितरमुकशर्मन्नवनेनिङ्क्ष्व' इति प्रथमम् । 'पितामहामुकशर्मन्नवनेनिङ्क्ष्व' इति द्वितीयम् । 'प्रपितामहामुकशर्मन्नवनिङ्क्ष्व'इति तृतीयमित्येवं वा।

 ततो निनयनसंस्कृतेषु स्थानेषु क्रमेणार्वाचीनपाणिस्त्रीन्पि[१]ण्डान्कृतान्ददाति । 'एतत्ते ततामुकशर्मन्ये च त्वामनु' इति पित्रे पिण्डं ददाति । 'एतत्ते पितामहामुकशर्मन्ये च त्वामनु' इति पितामहाय । 'एतत्ते प्रपितामहामुकशर्मन्ये च त्वामनु' इति प्रपितामहाय । तूष्णीं चतुर्थः पिण्डः । स[२] कृताकृतः । एतदर्थं निनयनमपि तूष्णीं कर्तव्यम् । अथ यदि नामधेयानि न जानीयात्तदा 'स्वधा पितृभ्यः पृथिवीषद्भ्यः' इति पित्रे पिण्डं दद्यात् । 'स्वधा पितृभ्योऽन्तरिक्षसद्भ्यः' इति पितामहाय । 'स्वधा पितृभ्यो दिविषद्भयः' इति


  1. अत्र 'पिण्डान्कृत्वा तान्' इति क. पुस्तकशोधितः पाठः
  2. च. स च कृ ।