पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[पिण्डपितृयज्ञप्रयोगः]
९७९
संस्काररत्नमाला ।

 ततः कर्ता फलीकरणान्यग्नेरुत्तरतो निक्षिप्य तण्डुलान्सकृत्प्रक्षाल्य स्थाल्यामुदकमानीयाग्नावधिश्रित्य तत्र तण्डुलानोप्याग्नौ [१]जीवतण्डुलमिव चरुं श्रपयति । जीवतण्डुला अविशीर्णास्तण्डुला यस्मिंश्चरौ तादृशमनतिपाकमित्य[२]र्थ इति वैजयन्तीकृत् । ततो यस्मिन्कस्मिंश्चिदनिषिद्धे पात्रे नवनीतमानीय पूर्वकृतेनैवैकपवित्रेण सकृदुत्पूूय तेन नवनीतेन पात्रस्थेनानुत्पतेनाऽऽज्येन वा तेनैव पात्रेणाभिघार्योत्तरत उद्वास्य पश्चादासादयति । आज्येनाभिघारणपक्ष उत्पवनाभावान्निर्वापोत्तरमेवाग्नौ पवित्रस्य प्रहरणम् । नवनीतेनाभिघारणपक्ष उत्पवनोत्तरं प्रहरणम् । अग्न्यायतनस्योत्तरतस्त्यजेद्वा ।

 ततः प्राचीनावीत्येवैकस्फ्याया वेदेर्दक्षिणतः समीप एव स्थण्डिलं कृत्वा गोमयेनोपलिप्योद्धृत्य षड्लेखा लिखित्वाऽवोक्ष्यावोक्षणशिष्टमर्धं जलं स्थण्डिलस्य पुरत उत्तरतो वोत्सिच्य, ( [३]अन्यच्छुद्धमुदकं तत्पात्र आनीय तत्पात्रं स्वस्योत्तरतो निधाय तेनोदककार्यं कुर्यात् । यस्मिन्कस्मिंश्चित्पात्रे वा स्थापनमतिप्रणीताग्नेः । अस्मिन्पक्षे न स्थण्डिलकरणादि । उदककार्यं तु येनकेनापि शुद्धोदकेन । ततो ) 'ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परा पुरो निपुरो ये भरन्त्यग्निष्टानस्मात्प्रणुनोक्तृ लोकात्' इत्यौपासनाग्नेरेकोल्मुकं धूपायत्पराचीन हुत्वा ले[४]खासु[५] यस्मिन्कस्मिंश्चित्पात्रे वा निधाय प्रज्वाल्य तमग्निं परिस्तृणाति । अथाध्वर्युस्तदभावे यजमान एव यज्ञोपवीती भूत्वा होमं कुर्यात् । दक्षिणं जान्वाच्य मेक्षणेन स्थालीपाकैकदेशमुपहत्य 'सोमाय पितृपीताय स्वधा नमः' इति पितृतीर्थेन प्रथमामाहुतिं जुहोति । सोमाय पितृपीतायेदं न मम । पु[६]नस्तथैव स्थालीपाकैकदेशमुपहत्य 'यमायाङ्गिरस्वते पितृमते स्वधा नमः' इति द्वितीयां तथैव । यमायाङ्गिरस्वते पितृमत इदं न मम । 'अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः' इति यानि मेक्षणे द्वितीयाहुत्यवशेषितानि संलग्नानि सिक्थानि तैस्तृतीयामाहुतिं तथैव जुहोति । अग्नये कव्यवाहनाय स्विष्टकृत इदं न मम । प्रथमाहुतिसंबन्धिसिक्थानामपि होम इति केचित् । अस्मिन्पक्षे प्रथमाहुतिसंबन्धिमेक्षणसंलग्नानि सिक्थानि पात्रान्तरे निहितानि द्वितीयाहुत्यवशेषितमेक्षणस्थसिक्थेषु [मिश्रयित्वा] तेन तृ(तैस्तृ)तीयाहुतिर्होतव्या । अविशेषणमर्धस्य भागस्येति संप्रदायः ।


  1. अत्र क. पुस्तकटिप्पण्यां "पुराणव्रीहयो येषां बीजमुप्तं प्ररोहति । तेभ्यो ये तण्डुला जाता विज्ञेया जीवतण्डुलाः । इति मैत्रावरुणपरिशिष्टे" इति वर्तते ।
  2. ङ. त्यर्थः । त ।
  3. धनुश्चिह्नान्तर्गतं ख. ङ. पुस्तकयोर्नास्ति ।
  4. च. स्थण्डिले ।
  5. ख ङ. सु नि ।
  6. क. ख. ङ. पुनः स्था ।