पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९७८
[पिण्डपितृयज्ञप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

तदभावे स्वयं वा कुर्यात् । ऋत्विक्कर्तृकेऽपि होमान्ते कर्मणि तद्वत्प्राचीनावीतयज्ञोपवीते यजमानस्यापि भवतः । पिण्डदानं तु यजमानकर्तृकमेव[१] । अध्वर्युः प्राचीनावीत्येव 'अपां मेध्यं यज्ञिय शतम्' इति सकृत्प्रयत्नेन मूलैः सह बर्हिराच्छिनत्ति[२] । अप उपस्पृश्य तूष्णीं बद्ध्वाऽऽहृत्यानधो निदधाति । तूष्णीं परिस्तरणाद्यर्थमन्यान्दर्भान्समूलाने[३]वाऽऽच्छिद्य बद्ध्वाऽऽहृत्य बर्हिःसमीपे[४]ऽनधो निदध्यात् ।

 ततः पुरस्ताद्दक्षिणाग्रैर्दक्षिणतः प्रागग्रैः पश्चाद्दक्षिणाग्रैरुत्तरतः प्रागग्रैर्दर्भैः प्रागादिप्रदक्षिणं यथावदेवाग्निं परिस्तृणाति । नात्राधरोत्तरभावनियमः । पूर्वं परिस्तृतत्वेऽपि धर्मभेदात्परिस्तरणं कार्यमेव । पिण्डपितृयज्ञपरिस्तरणदर्भाः प्रज्ञाताः कार्याः । पिण्डपितृयज्ञसमाप्तौ तेषामेव निष्काशनम् ।

 तत उत्तरेणाग्निमुत्तराग्रान्दर्भान्संस्तीर्यैकैकशः पिण्डपितृयज्ञपात्राण्युत्तानान्येव प्रयुनक्ति । स्फ्यं स्थालीं मेक्षणं शूर्पं कृष्णाजिनमुलूखलं मुसलमिति प्रागपवर्गाण्युदगपवर्गाणि वाऽऽसादयेत् । सूत्रे पिण्डपितृयज्ञाधिकारे पुनः पिण्डपितृयज्ञपात्राणीतिवचनमेतदर्थानि भिन्नान्येव पात्राणि संपादनीयानि न दार्शपौर्णमासिकैः कार्यसिद्धिरितिख्यापनार्थमिति वैजयन्तीकृत् । पार्वणस्थालीपाकीयैरपि न कार्यसिद्धिरित्यपि द्रष्टव्यम् ।।

 ततोऽपरेणाग्निं व्रीहिमच्छकटमवस्थाप्य शकटाभावे स्फ्ये पात्रीं निधाय तत्र व्रीहीनोप्यैकदर्भमयं पवित्रं कृत्वोदगग्रं स्थालीमुखे निधाय शकटस्थव्रीहिभिः पात्रीपक्षे पात्रीस्थव्रीहिभिः स्थालीं पूरयित्वा स्थालीमुखतोऽधिकातुपरि राशीभूतान्हस्तेन शकटस्थव्रीहिपु पात्रीपक्षे पात्रीस्थव्रीहिषु निःसार्य पवित्रमपातयन्पितृभ्यस्त्वा जुष्टं निर्वपामीति शूर्पे[५] सकृदेव निर्वपति[६] । ततस्तूष्णीं दक्षिणेना(न) [दक्षिणा]ग्निं दक्षिणापूर्वेण दक्षिणापरेण वा प्रत्यगुदग्ग्रीवं कृष्णाजिनमास्तीर्य तत्रोलूखलं स्थापयति । दक्षिणापूर्वेण दक्षिणापरेण वेत्येतावतैव सिद्धे दक्षिणेन दक्षिणाग्निमितिवचनं शकटस्य दक्षिणापूर्वेण दक्षिणापरेण वेति स्यात्तन्मा भूदित्येतदर्थम् ।

 तत आग्नेय्यभिमुखी तिष्ठन्ती पत्नी मुख्यैव तस्मिन्नुलूखले व्रीहीनोप्यावहन्ति । तदभावे तस्या अयोग्यत्वे च कनिष्ठा । ततस्तुषाणां निःसारणं कृत्वा सर्वांस्तुषान्निर्गमय्य सकृदेव कणविमोकार्थं फली करोति ।


  1. च. व । ततोऽध्व ।
  2. च. त्ति उत्पाटयतीत्यर्थः । अ ।
  3. च. नेवोत्पाट्याप उपस्पृश्य तान्बद्ध्वा ।
  4. क. ख. ङ. पे नि ।
  5. ङ. च. ऐं स्थाल्या स ।
  6. च. ति । पितृतीर्थेनेति केचित् । त ।