पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[पिण्डपितृयज्ञप्रयोगः]
९७७
संस्काररत्नमाला ।

तथा । तत्रामावास्याशब्दस्य पञ्चदश्यां प्रतिपदि च प्रवृत्तेर्निय[१]मानाह–-'यदहः पुरस्ताच्चन्द्रमसं न पश्यन्ति' [ इति ] प्रत्यक्षेण शास्त्रेण वा नाभ्रादिव्यवधानेन तत्र संधिमतीत्यर्थः । यदि दृश्यते तदाऽऽह-- 'दृश्यमाने तूपोष्य श्वोभूते यजते' [ इति ] । उषित्वा सत्यसति वा पर्वसंधौ परदिनेऽपराह्णेऽधिवृक्षसूर्ये वा यजत इति व्याख्यातं वैजयन्तीकृता ।

 आपस्तम्बसूत्रेऽपि--

"अमावास्यायां यदहश्चन्द्रमसं न पश्यन्ति
तदहः पिण्डपितृयज्ञेन चरन्ति" इति ।

 पिण्डैर्युक्तः पितृयज्ञः पिण्डपितृयज्ञः । स च कर्मान्तरं न तु दर्शशेषः । यथा वक्ष्यति-- 'पितृयज्ञः स्वकालविधानादनङ्गं स्यात्' इति । तं च यदहश्चन्द्रमसं न पश्यन्ति पञ्चदश्यां प्रतिपदि वा तदहः कुरुते यदहस्तयोः संधिस्तदहरित्यर्थ इति रुद्रदत्तः । रामाण्डारोऽप्याह-- "पिण्डपितृयज्ञस्तु पर्वसंधिमदहोरात्रापराह्णे" इति । अमावास्यायामपराह्णे पिण्डपितृयज्ञः' इत्यस्मिन्नाश्वलायनसूत्रे वृत्तिकारोऽपि--

"अमावास्याशब्दः प्रतिपत्पञ्चदश्योः संधिवचनोऽप्यत्रापराह्णशब्दसमन्वयात्तद्वत्यहोरात्रे वर्तते । तस्यापराह्णे तुर्ये भागे पिण्डपितृयज्ञः कार्यः । औपवसथ्ये यजनीये वाऽहनि यदा त्वहोरात्रसंधौ तिथिसंधिः स्यात्तदौपवसथ्य एवाहनि क्रियते" इति ।

 अध्वर्युरुपवीतीत्यत्राध्वर्युग्रहणमनाहिताग्नेरप्यध्वर्युकर्तृकत्वार्थमिति भा[२]ष्यकृत् । वैजयन्तीकृत्तु कतिपयानां दर्विहोमधर्माणां पिण्डपितृयज्ञप्रकरणस्थेन विशेषविधिना बाधेऽपि कर्तुरध्वर्योरबाधं स्मारयितुमध्वर्युरित्युक्तमित्याह । तेनानाहिताग्नेरप्यध्वर्युवरणमावश्यकम् । अशक्यत्वात्तदकरणे तु यजुर्भेषप्रायश्चित्तमनाज्ञातजपो वा कार्यः ।

अथ प्रयोगः ।

 कर्ताऽमावास्याप्रतिपत्संधिमति दिनेऽपराह्णे प्राचीनावीती कृताचमनप्राणायामः प्रथमप्रयोगेऽसतिबाधक उक्ते काले यावज्जीवं पिण्डपितृयज्ञेन यक्ष्य इति संकल्पं कुर्यात् ।

 ततः पुनराचम्य पिण्डपितृयज्ञेन यक्ष्य इति संकल्प्य, अस्मिन्पिण्डपितृयज्ञेऽध्वर्युं त्वामहं वृण इति वृणुयात् । ऋत्विजं त्वामहं वृण इत्येवं वा वरणम् ।


१२३
 
  1. ङ. च. यममाह ।
  2. च. मातृदत्तः ।