पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९७४
[वैश्वदेवप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
( अनग्निककर्तृकवैश्वदेवप्रयोगः )
 

कृत्वा तदनुसारेण तस्मिन्नेवाग्नौ परिषेकपूर्वकं देवयज्ञार्थेनान्नेन प्रजापतये स्वाहेत्यादिमन्त्रैर्होमः कार्यः । तत उत्तरपरिषेकः । अथवा षडाहुत्यादौ पूर्वपरिषेक एतद्धोमान्त उत्तरपरिषेको न मध्यभूताः(तः) परिषेकः[१] । वैश्वदेवप्रकरणस्थत्वात् । एतद्धोमे तस्या[२]ग्नेस्तस्यान्नस्य च प्राप्तिर्द्रष्टव्या । देवयज्ञादीनां पृथक्करणकल्पे भूतेभ्यो नम इत्यन्त एते होमाः ।

अथ जले वैश्वदेवक्रियाया प्रयोगः ।

 शुद्धजलसमीपे प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं जले जलेनामुकवैश्वदेवं करिष्य इति संकल्प्य, अञ्जलिना षडाहु[३]तिमन्त्रै[४]र्बलिमन्त्रैर्ये भूता इतिमन्त्रेण च जलं दद्यात् । नात्र पूर्वोत्तरपरिषेकौ । न[५] परिमार्जनादयो बलिहरणधर्मा असंभवात् ।

अथानग्निककर्तृकवैश्वदेवप्रयोगः ।

 श्रीपरमेश्वरप्रीत्यर्थमनग्निकविहितवैश्वदेवविधिना वैश्वदेवं करिष्य इति संकल्प्य पूर्वपरिषेकान्ते हस्तेनाऽऽहुतीर्जुहुयात् । 'ॐ भूः स्वाहा' अग्नय इदं० । 'ॐ भुवः स्वाहा' वायव इदं० । 'ॐ सुवः स्वाहा' सूर्यायेदं० । 'ॐ भूर्भुवः सुवः स्वाहा' प्रजापतय इदं० । 'ॐ देवकृतस्यैनसोऽवयजनमसि स्वाहा' । 'ॐ मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा' । 'ॐ पितृकृतस्यैनसोऽवयजनमसि स्वाहा' । 'ॐ आत्मकृतस्यैनसोऽवयजनमसि स्वाहा' । 'ॐ अन्यकृतस्यैनसोऽवयजनमसि स्वाहा' । 'ॐ अस्मत्कर्तृकतस्यैनसोऽवयजनमसि स्वाहा' । 'ॐ यद्दिवा० सि स्वाहा' । 'ॐ यत्स्वप० सि स्वाहा' । 'ॐ यत्सुषु० सि स्वाहा' । 'ॐ यद्विद्वा० सि स्वाहा' । 'ॐ एनस एनसोऽवयजनमसि स्वाहा' । ॐ प्रजापतये स्वाहा[६]' । इति षोडशाऽऽहुतीर्जुहुयात् । अग्नय इदमिति देवकृतस्येत्याद्येकादशशाकलमन्त्रहोमत्यागः । एताभिः षोडशाहुतिभिरग्नये स्वाहेत्यादिषडाहुतीनां बाधः । तत उत्तरपरिषेकबलि[[७]हरणादि समानम् ।

इत्यनग्निककर्तृकवैश्वदेवप्रयोगः ।

 वैश्वदेवसिद्ध्यर्थं वैश्वदेवमन्त्रजपमहं करिष्य इति संकल्प्य, अग्नये स्वाहे--


  1. क. धेकाः । वै ।
  2. क. स्याग्रे तस्या ।
  3. क. हुतीर्मन्त्र ।
  4. क. न्त्रैर्ये ।
  5. क. न मा ।
  6. क. हा । प्रजापतय इदं । इ ।
  7. क. पुस्तकटिप्पण्यामेवैतच्चिह्नान्तर्गतो ग्रन्थः । च. पुस्तके तु त्रुटितः ।