पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[सायंप्रातर्वैश्वदेवयोस्तन्त्रेण प्रयोगः]
९७३
संस्काररत्नमाला ।

पितृयज्ञेन य[१]क्ष्य इति संकल्प्य पित्रर्थादन्नादादाय 'ॐ पितृभ्यः स्वधाऽस्तु' इति पूर्वपित्र्यबलेः पुरस्तात्पित्र्यबलिधर्मेण ददाति । पितृभ्य इदं० । प्रसव्यं परिषिच्य यज्ञोपवीती भूत्वा भूतयज्ञेन य[२]क्ष्य इति संकल्प्य धर्माद्यर्थान्नशेषादादाय 'ॐ भूतेभ्यो नमः' इति रौद्रबलेः पुरस्तादद्या[३]त्परिषिञ्चेच्च । भूतेभ्य इदं० । ये भूता इत्येतत्पूर्वं वोत्तरपरिषेकः[४], एतदनन्तरं वेति प्रयोगक्रमो द्रष्टव्यः । अथवा षडाहुत्यादौ पूर्वपरिषेक: । देवेभ्यः स्वाहेत्यन्त उत्तरपरिषेकः । न मध्यभूतौ परिषेकौ । सायंवैश्वदेवस्य स्वकाले क्रियायां देवेभ्यः स्वाहेत्यादि त्र[५]यं न भवति । सर्वे बलयः कुक्कुटाण्डप्रमाणाः । अविभक्तेषु ज्येष्ठेन[६], तस्याशक्तावसंनिधाने वा तदाज्ञयाऽन्येनापि[७] विहितकर्त्रा वैश्वदेवः कार्यः । तत्तत्स्थाने बलिदानाशक्तावग्नेः पश्चाद्गोमयेनोपलिप्तायां भू[८]मौ यत्र यत्र यत्स्थानं भवति तदनुसारेण तत्तत्स्थानानि कल्पयित्वा बलिदानं कुर्यात् । पूर्ववदेव परिषेकः । ब्रह्मबल्यन्तानां बलीनां सहैव वा परिषेकः सं[९]विभवात् । अस्ति च सूत्रं 'तेषां विभवन्ति तन्त्रमङ्गान्यविभवन्त्यावर्तन्ते' इति । एकत्र चेच्चक्राकारं व्य[१०]जनाकारं वा बलि[११]हरणमिच्छन्ति केचित्[१२] । कुर्वन्ति चेदानीमेतदनुसारेणैव शिष्टाः । यत्तु वैश्वदेवकारिकासु यथेष्टं वैश्वदेव उक्तः कूर्माकृतिबलिहरणं चोक्तं तत्सूत्रवृत्त्यर्थयोरज्ञानेनैव स्वकपोलकल्पितत्वाद्धान्तप्रलपितमित्युपेक्षणीयम्[१३] । प्रवासेऽप्येवम्[१४] । वैश्वदेवसूत्रस्वरसात्, व्यजनाकारमायाति पुनरपि मृग्यं च सुधीभिः । प्रजापतये स्वाहेत्यादिमन्त्रत्रयस्य प्रजाकामपारमेष्ठ्यकामधनकामेषु क्रमेण विनियोगो द्रष्टव्यः[१५] । एतेषां होमो रौद्रबल्यन्ते । ([१६]तत्तत्कामनानुसारेणाऽऽदौ संकल्पं


  1. च. यक्ष्ये पितृयज्ञं करिष्य इति वा पूर्वसंकल्पानुसारेण सं ।
  2. च. यक्ष्ये भूतयज्ञं करिष्य इति वा प्रथमसंकल्पानुसारेण र ।
  3. च. द्यान् । भूतेभ्य इदं । ततः परिषिञ्चेत् । ये ।
  4. च. कः । त ।
  5. च. त्रितयं ।
  6. ङ. न तदा ।
  7. क. ख ङ. पि वै ।
  8. ख. ङ. मौ तत्त । च. मौ स्वगृहे यत्र तत्स्था ।
  9. च. विभवात् ।
  10. क. ख. ङ. व्यञ्जना ।
  11. च. लिदानं केचिदिच्छन्ति । कु ।
  12. ख. त् । य ।
  13. ख. ङ. म् । वै ।
  14. च. म् । प्रजाप ।
  15. च. व्यः । रौ ।
  16. धनुश्चिह्नान्तर्गतो ग्रन्थश्च. पुस्तक एव । क. पुस्तकेऽपि बहिष्टिप्पणीरूपेण लिखितोऽस्ति । एतद्बन्धस्थाने क. ख. ङ. पुस्तकेष्वन्यथा ग्रन्थः स यथा--"अग्नौ देवयज्ञार्थेनान्नेन देवयज्ञादीनां भिन्नत्वमिति कल्पे भूतेभ्यो नम इत्यन्ते वैश्वदेवप्रकरणस्थत्वाद्बौधायनोक्तेश्च होमेऽन्नप्राप्तिर्द्रष्टव्येति सुस्थम् । मिताक्षरायां बृहस्पतिः--अनिर्वर्त्य महायज्ञान्यो भुङ्क्ते प्रत्यहं गृही । अनातुरः सति धने कृच्छ्रार्धेन विशुध्यतीति । चान्द्रायणकृच्छ्रार्थयोः शक्ताशक्तपरत्वेन व्यवस्था । गीतायाम्--"यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्" । इति करणे फलातिशयोऽकरणे प्रत्यवायश्च स्मर्यते । अत्र यज्ञो वैश्वदेव इति श्रीधरस्वामिना व्याख्यातम् । तेन साग्निकैर्निरग्निकैश्च भोजनलोपेऽपि येन केनापि द्रव्येण यथाकथंचित्पञ्च महायज्ञाः कर्तव्या एवेति निष्कर्षः" इति ।