पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वैश्वदेवप्रयोगः]
९७१
संस्काररत्नमाला ।

रन्तरालेन 'ॐ स्वधा पितृभ्यः' पितृभ्य इदं० । प्रसव्यं परिषिच्य यज्ञोपवीत्यप उपस्पृशेत्[१]

 [२] स्वधा पितृभ्य इति मन्त्रान्त एव पित्र्यबलिर्देयः । न तु स्वधाशब्दान्ते । अन्यथा मन्त्रप्रकरणत्वव्याघातापत्तेः । स्वधाशब्दस्य हविर्धा(र्दा)नार्थत्वात्स्वधा पितृभ्य इत्येतावानेव मन्त्रः, न तु स्वाहान्तः । उज्ज्वलाकृता स्वधा पितृभ्य इत्येतावानेव मन्त्रः प्रदर्शितोऽस्ति । एतेन ज्ञायते स्वाहाकारपाठो नास्तीति । यद्यस्ति तदा पितृभ्यः स्वाहेतिमन्त्रान्तराभिप्रायेणैव स योज्यः । अस्मिन्कल्पे न (तु) यज्ञोपवीतिता च द्रष्टव्या । अयं च जीवत्पितृकविषये[३] । एतदन्त एव बलिदानं मन्त्रान्तस्थ[४]स्वधास्वाहाशब्दान्त एव पठनम्(?) । अनमध्यतस्थानत इत्यनाय[५]त्यान(?) स्वीकारात् । अन्यथोभयतः पाश आपद्येत ।

 ततस्तदुत्तरतः प्रदक्षिणं परिमृज्यावोक्ष्य भूतयज्ञार्थादन्नादादाय 'ॐ नमो रुद्राय पशुपतये स्वाहा[६]' इत्येकेन[७]रुद्राय पशुपतय इदं[८]० । ततस्तं प्रदक्षिणं प[९]रिषिच्याप उपस्पृशेत्[१०] । न वा त्यागाः ।

"द्वावेको द्वौ च चत्वारः प्रत्येकं त्रितयं तथा ।
दश चैक इति ज्ञेयं[११] स्थानभेदाद्यथाविधि"

 इति परिषेकक्रमसंग्रहः । ततो गृहद्वारं गत्वाऽवोक्ष्य 'ॐ ये भूताः प्रचरन्ति दिवा[१२] नक्तं बलि० पतिर्दधातु स्वाहा" इति भूमौ बलिं दद्यात्परिषिञ्चेच्च । दिवाचारिभ्यो भूतेभ्यः पुष्टिपतये चेदं० । न वा त्यागः[१३] । ततो गृहद्वारेऽतिथिमाकाङ्क्षन्गोदोहनकालपर्यन्तं स्थित्वाऽतिथीन्विप्रा[१४]ञ्शक्तौ सत्यामभ्यागतांश्च गृहमानीय स्वयं हस्तपादान्प्र(दं प्र)क्षाल्याऽऽचम्य तथैव तेषामपि [१५]हस्तपादान्प्रक्षाल्याऽऽचम्याऽऽसने प्राङ्मुखानुपवेश्य निवीती भूत्वा मनुष्ययज्ञेन य[१६]क्ष्य इति संकल्पं कुर्यात् । केचित्तु मनुष्ययज्ञं करिष्य इत्येव संकल्पमिच्छन्ति । ततस्तानतिथी[१७]नभ्यागतांश्च संपूज्य निवीत्येव मनुष्येभ्यो हन्ता मनुष्येभ्य इदं न ममेत्युत्सृज्य तान्भोजयेत् । अतिथित्रयाभाव


  1. ङ. त् । तदत्तरतः । च. त् । जीवत्पितृकश्चेत्पितृभ्यः स्वाहेतिमन्त्रेण यज्ञोपवीती प्राचीनावीती वा बलिं दद्यात् । ततस्तदुत्त ।
  2. एतदाद्यापद्येतेत्यन्तं प्रायः पूर्वमागतमेव ।
  3. ख. ये दन्तये बलिदानंस्तु मन्त्रा ।
  4. ख. स्थब्रह्मस्व ।
  5. ख. यत्यन ।
  6. ङ. हा । रु ।
  7. क. ख. न । नमो रु ।
  8. क. ख. दं । प्र । ङ. दं । इत्येकेन । प्र ।
  9. ख. रिमृज्याप ।
  10. ख. त् । द्वा । ड. त् । ये भू ।
  11. क. ख. यं धर्मभै ।
  12. क. ख. ङ. वा व ।
  13. च. गः । ततः परिषिञ्चेत् । त ।
  14. क. ख. प्रानभ्यागतान्गृद्ध ।
  15. मध्यमपदलोपिना समासेन निर्वाहः ।
  16. ङ. च. यक्ष्ये मनुष्ययज्ञं करिष्य इत्येवं वा संकल्प्य तान ।
  17. क. ख. थीन्संपू ।