पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९७०
[वैश्वदेवप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

 ( [१] षडाहुतीर्हुत्वा--) अदितेऽन्वम स्था इत्याद्यैरुत्तरपरिषेकं कुर्यात् । ततो बलिदे[२]शमद्भिर्हस्तेन परिमृज्यावोक्ष्य बलिं न्युप्य गन्धमाल्यादिभिरभ्यर्च्य परिषिञ्चेत् । एवं सर्वबलिषु ।एकदेशसमवेतानेकबलीनामपि मार्जनावोक्षणे पृथक्पृथगेव, परिषेचनं त्वन्ते सकृदेव । ततोऽपरेणाग्निं 'ॐ धर्माय स्वाहा[३]' 'ॐ अधर्माय स्वाहा' इत्युदगपवर्गं दद्यात् । धर्मायेदं० । अधर्मा[४]येदं० । परिषिच्य, ततोऽग्नेर्दक्षिणत उदधानसंनिधौ--'ॐ अद्भ्यः स्वाहा' अद्भ्य इदं० । परिषिच्य, अगारस्य मध्ये द्वाभ्यां प्रागपवर्गम्-- 'ॐ ओषधिवनस्पतिभ्यः स्वाहा' ओषधिवनस्पतिभ्य इदं० । 'ॐ रक्षोदेवजनेभ्यः स्वाहा' रक्षोदेवजनेभ्य इदं० । परिषिच्य, अगारस्योत्तरपूर्वदेशे 'ॐ गृह्याभ्यः स्वाहा' गृह्याभ्य इदं० । 'ॐ अवसानेभ्यः स्वाहा' अवसानेभ्य इदं० । 'ॐ अवसानपतिभ्यः स्वाहा' अवसानपतिभ्य इदं० । 'ॐ सर्वभूतेभ्यः स्वाहा' सर्वभूतेभ्य इदं० । इति चतुर्भिः प्रागपवर्गं, परिषिच्य, अगारस्य दक्षिणभागे शय्यादेशे 'ॐ कामाय स्वाहा' कामायेदं० । इत्येकेन । परिषिच्य, देहल्यामेकेन--'ॐ अन्तरिक्षाय स्वाहा' अन्तरिक्षायेदं० । परिषिच्य, कपाटसंनिधौ 'ॐ यदेजति जगति यच्च चेष्टति० नाम्नो भागोऽयं नाम्ने स्वाहा' अपिधानायेदं० । वायव इदमिति वा । परिषिच्य, अग्नेर्दक्षिणतो ब्रह्मसदने 'ॐ पृथिव्यै स्वाहा' पृथिव्या इदं० । 'ॐ अन्तरिक्षाय स्वाहा' अन्तरिक्षायेदं० । 'ॐ दिवे स्वाहा' दिव इदं० । 'ॐ सूर्याय स्वाहा' सूर्यायेदं० । 'ॐ चन्द्रमसे स्वाहा' चन्द्रमस इदं० । 'ॐ नक्षत्रेभ्यः स्वाहा' नक्षत्रेभ्य इदं० । 'ॐ इन्द्राय स्वाहा' इन्द्रायेदं० । 'ॐ बृहस्पतये स्वाहा' बृहस्पतय इदं० । 'ॐ प्रजापतये स्वाहा' प्रजापतय इदं० । 'ॐ ब्रह्मणे स्वाहा' ब्रह्मण इदं । इत्येतैर्दशभिः प्रागपवर्गं, परिषिच्य, पितृयज्ञार्थादन्नादादाय, एतद्बलीनां दक्षिणतः प्राचीनावीती प्रसव्यं परिमृज्यावो[५]क्ष्य दक्षिणं पाणिमुत्तानं कृत्वाऽङ्गुष्ठतर्जन्यो


  1. धनुश्चिह्नान्तर्गतग्रन्थस्थाने च. पुस्तकेऽन्यथा ग्रन्थः स यथा--"षडाहुतीर्जुहुयात् । अत्र मध्य एव स्विष्टकृदाहुतिर्नेशान्याम् । क्षीरादिद्रवद्रव्येण होमे तु सुवस्तत्साधनम् । एवं बलिष्वपि । एतस्य होमस्य स्वकर्तृकत्वे त्यागाः कृताकृताः । स्वस्यासंनिधौ पत्न्या त्यागाः कार्याः । पत्न्यसंनिधौ होमकर्त्रैव । ऋत्विक्कर्तृकत्वादौ तं कृत्वा तेन वैश्वदेवः कारणीयः । कर्मसमाप्तौ हिरण्यं गौर्वा पूर्णपात्रं वा तस्मै दक्षिणां दद्यात् । ततः--"इति । क. पुस्तकेऽपि स्विष्टकृत इदभित्यनन्तरम्--"अत्र मध्य इत्यादिर्दद्यादित्यन्तो ग्रन्थो बहिर्लिखितोऽस्ति ।
  2. क. ख. ङ. देशेऽद्भि ।
  3. क. हा । इ ।
  4. क. र्माय स्वाहा । अधर्मायेदं । परि ।
  5. ङ. वोक्ष्यायाचीनपाणिर्भूत्वा द ।