पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वैश्वदेवप्रयोगः]
९६९
संस्काररत्नमाला ।

रसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं वैश्वदेवं करिष्य इति संकल्पं कुर्वन्ति । प्रातरेव तन्त्रेण होमे तु प्रातःसायंवैश्वदेवौ तन्त्रेण करिष्य इति संकल्पः । ) त[१]तः पचनाग्नौ हो[२]मकर्तव्यतायां तम[३]ग्निं कुण्ड आनीय गृहमध्यभागे संस्थाप्य प्रज्वालयेत् । औपासनाग्नौ होमे तस्य प्रज्वालन[४]मात्रं नाऽऽनयनम् । ततोऽशनीयादन्नाद्भविष्यान्नं होमार्थमुद्धृत्य सूपसंसृष्टं सर्वव्यञ्जनसं[५]सृ[६]ष्टं वाऽन्नं बलिदानार्थं पितृयज्ञार्थं च पृथक्पृथगुद्धृत्य सर्वव्यञ्जनसहितमेवान्नं मनुष्ययज्ञार्थमुद्धरेत् । यदि तु विप्राणां विप्रस्य वोदरपूर्तिपर्यन्त[७]मन्नं दातुं सामर्थ्यमस्ति तदा तद्भोजनपर्याप्तमन्नं पृथगुद्धरेत् ।

 वैश्वदेवोत्तरं नैवेद्यसमर्पणमितिकल्पे नैवेद्यार्थमपि पृथगुद्धरणीयम् । ततस्तदुद्धृतं सर्वमन्नमग्नावधिश्रित्याभिघार्योद्वास्याद्भिः प्रोक्षेदिति देवपवित्रसंस्कारसंस्कृतं कुर्यात्[८] । अयं च संस्कारः शूद्रकर्तृकपाकपक्ष इत्युज्ज्वलाकृत् । देवपवित्रसंस्काराभावपक्षेऽप्यभिघारणं भवत्येव[९] । मातृदत्तमते तु परोक्षनिष्पन्नत्वादयं संस्कार इति, तन्मत आर्यकर्तृकपाकपक्षेऽपि भवति ।

 ततः--अदितेऽनुमन्यस्वेत्यादिभिराग्निं परिषिच्य यावद्धोमं हृदि[१०] सव्यहस्ततलं निधाय, ([११]अग्नये स्वाहेत्यादिमन्त्राणां याज्ञिक्यो देवता उपनिषदः स्वयंभूर्वा, ऋषिः । मन्त्रोक्ता देवताः । यजूंषि । होमे बलिहरणे च यथायथं विनियोगः, इत्युक्त्वा देवयज्ञानां पृथक्कर्तव्यतायां देवेभ्यः स्वाहेत्यादिमन्त्रत्रयस्यापि पूर्ववद्यजूंषीत्यन्तेनर्ष्यादि स्मृत्वा देवय[१२]ज्ञादिषु विनियोगं चाभिसंधाय ये भूता इत्यस्य याज्ञिक्यो देवता उपनिषदः स्वयंभूर्वा, ऋषिर्भूतानि पुष्टिपतिश्च देवता त्रिष्टुप्छन्दः । सर्वभूतबलिप्रदाने विनियोग इति[१३] च स्मृत्वा । व्यञ्जनरहितभागादङ्गुष्ठपर्वमात्रमादाय संहताङ्गुलिनोत्तान्नेन[१४] दक्षिणहस्तेन जुहोति । 'ॐ अग्नये स्वाहा' अग्नय इदं । 'ॐ विश्वेभ्यो देवेभ्यः स्वाहा' विश्वेभ्यो देवेभ्य इदं० । 'ॐ ध्रुवाय भूमाय स्वाहा' ध्रुवाय भूमायेदं० । 'ॐ ध्रुवक्षितये स्वाहा' ध्रुवक्षितय इदं । 'ॐ अच्युतक्षितये स्वाहा' अच्युतक्षितय इदं । 'ॐ अग्नये स्विष्टकृते स्वाहा', अग्नये स्विष्टकृत इदं० । इति


१२२
 
  1. ङ. तत आयतने प ।
  2. च. होमे तस्य प्रज्वालनमात्रं, कुण्ड आनयनं गृहमध्यभागे संस्थापनं च न । ततोऽ ।
  3. मग्निमानीय प्र ।
  4. ङ. नम् ।
  5. क. संस्पृष्टं ।
  6. च. सृष्टमग्नं ।
  7. क.स. ङ. र्यन्यं दा ।
  8. च य । दे ।
  9. च. य । नत ।
  10. च दि वामङ ।
  11. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः । अयं च ग्रन्थः क. पुस्तकेऽत्र नास्ति किं त्वेतदग्रे जुहोतीत्येतस्यानन्तरम् ।
  12. च. यज्ञपितृयज्ञभूतयज्ञमनुष्ययज्ञेषु विनियोग इति वि ।
  13. एतत्पदत्रयं नास्ति क. पुस्तके ।
  14. क. ख. ङ. म ह ।