पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९५८
[वैश्वदेवकालनिर्णयः]
भट्टगोपीनाथदीक्षितविरचिता--

दृश्यते च पूर्वेद्युर्निमन्त्रितेषु ब्राह्मणेषु श्राद्धापरिसमाप्तावेव सायंप्रातर्होमकरणमिति मदनपारिजाते ।

 द्वितीयः कालो भविष्यपुराणे--

"पितॄन्संतर्प्य विधिवद्बलिं दत्त्वा विधानतः ।
वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्मणभोजनम् ।" इति ॥

 बलिशब्दार्थस्तत्रैवोक्तः--

"ये अग्निदग्धामन्त्रेण भूमौ यन्निक्षिपेद्बुधः ।
जानीहि तं बलिं वीर श्राद्धकर्मणि सर्वदा" इति ॥

तृतीयो मत्स्यपुराणे--

"उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रा विसर्जिताः ॥
वैश्वदेवं ततः कुर्यान्निवृत्ते पितृकर्मणि" इति ॥

 भविष्येऽपि--

"कृत्वा श्राद्धं महाबाहो ब्राह्मणांश्च विसृज्य तु ।
वैश्वदेवादिकं कर्म ततः कुर्यान्नराधिप" इति ॥

 मनुरपि--

"उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रा विसर्जिताः ।
ततो गृहबलिं कुर्या[१]दिति धर्मो व्यवस्थितः" इति ॥

 अत्र बलिशब्दो वैश्वदेवप्रदर्शनार्थ इति मेधातिथिः(थि)([२][३]र्कौ (?) । काकबलिपर इति दिवोदासः । यत्तु गोविन्दार्णवे वचनम्--

"याजुषाः सामगाः पूर्वं मध्ये जुह्वति बह्वृचाः ।
अथर्वाङ्गिरसस्त्वन्ते वैश्वदेवे त्वयं विधिः" ॥

 इति तद्धेमाद्र्यादिग्रन्थेष्वदर्शनान्निर्मूलम् ।

 तैत्तिरीयाणां साग्निकानां सर्वत्राऽऽदौ वैश्वदेवः पञ्च यज्ञाश्च । अन्ते वेति सुदर्शनभाष्ये ।)

 वृद्धिश्राद्धादिषु वैश्वदेवकालविशेषः स्मृत्यन्तरे--

"वृद्धावादौ क्षये चान्ते दर्शे मध्ये महालये ।
एकोद्दिष्टे निवृत्ते तु वैश्वदेवो विधीयते" इति[४]

 क्षये चेत्यत्र चकार आदिपदानुकर्षणार्थः । इदं निरग्निकविषयम्, दर्शेऽप्यन्त एवेति प्रयोगवैजयन्तीकारादयः । ([५] एतद्वचनानुक्तेषु श्राद्धे[६]षु त्वनग्निकस्य पूर्वोक्तास्त्रयः सामान्यतः काला ज्ञेयाः ।)


  1. क. र्यादथ ध ।
  2. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  3. क. ख. ङ. कर्को ।
  4. ख. ति । इ ।
  5. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख ङ. पुस्तकयोः ।
  6. क. द्धेष्वन ।