पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
(पुंसवनसीमन्तोन्नयनयोस्तन्त्रेण प्रयोगः)
८२५
संस्काररत्नमाला ।
"ॐ सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजा विवृत्तचक्रा आसीनास्तीरे तुभ्यं गङ्गे विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विषः"

 इति भार्यामभिमन्त्रयते । अत्र गङ्गाव्यतिरिक्तनदीसमीपनिवासे तु यस्या नद्याः समीपे निवासस्तन्नाम संबुद्ध्या ग्राह्यम् । गोदाकृष्णयोः समीपे निवासे तु भागीरथीवद्गङ्ग इत्येव । एतयोरपि गङ्गापदप्रवृतिनिमित्तत्वस्य तन्माहात्म्ययोर्दर्शनात् ।

 ततो ब्राह्मणभोजनं भूयसीदानं च । तत आशिषो गृहीत्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् । देवरादिभिर्लौकिकाग्नावेवायं होमः कार्यः ।

इति सीमन्तोन्नयनप्रयोगः ।

अथ पुंसवनसीमन्तोन्नयनयोस्तन्त्रेण प्रयोगः ।

 तत्राऽऽदाबालस्यादिनाऽकृतपुंसवनस्य सूत्रविहितकालातिक्रमदोषपरिहारार्थं लौकिकाग्नौ व्याहृतिहोमादिभिः सहितेन रहितेन वाऽऽघारवत्तन्त्रेणाऽऽपूर्विकतन्त्रेण वा त्वं नः स त्वं न इत्याद्याः पूर्ववत्सप्ताऽऽहुतीः समस्तव्याहृतिभिरेकामाहुतिं च हुत्वा, अशक्तौ केवलां समस्तव्याहृतिभिरेकामेव वा हुत्वा गोदानाद्यन्यतमप्रत्याम्नायेन पादकृच्छ्रमालस्येनाकरणेऽर्धकृच्छ्रं प्रायश्चित्तं चरित्वा पुंसवनं सीमन्तेन सह कुर्यात् । तस्यापि सूत्रोक्तकालातिक्रमे तस्मिन्नेवाग्नौ द्विवारं पूर्वोक्ताहुतीर्हुत्वा प्रतिसंस्कारं पादकृच्छ्रमर्धकृच्छ्रं वा प्रायश्चित्तं कुर्यात् ।

 तत आचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्यां भार्यायां विद्यमानगर्भस्य पुंस्त्वप्रतिपादनबीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं पुंसवनं ममास्यां भार्यायां विद्यमानस्यास्य प्रथमगर्भस्य जनिष्यमाणसर्वगर्भाणां च बीजगर्भसमुद्भवैनोनिबर्हणद्वारा क्षेत्रसंस्कारद्वारा च श्रीपरमेश्वरप्रीत्यर्थं सीमन्तोन्नयनं च तन्त्रेण करिष्य इति संकल्पः । पुंसवनसीमन्तोन्नयनकर्मणोः पुण्याहं भवन्तो ब्रुवन्तु । पुंसवनसीमन्तोन्नयनकर्मणोः स्वस्ति भवन्तो ब्रुवन्तु । पुंसवनसीमन्तोन्नयनकर्मणोर्ऋद्धिं भवन्तो ब्रुवन्तु । पुंसवनसीमन्तोन्नयनकर्मणोः श्रीरस्त्विति भवन्तो ब्रुवन्तु । इति पुण्याहादिवाक्यानि । द्वितीये प्रतिवचनवाक्य ऋध्येतामिति विशेषः । पुंसवनसीमन्तोन्नयनकर्मणोर्या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामीत्यन्वाधानवाक्ये । गणेशपूजनादिबलिकरणपुण्याहादिवाचनान्तं तन्त्रेणैव । वैशेषिकधात्रीचतुष्टयहोमस्यापि नाऽऽकृतिः । संप्रतिपन्नदेव[१]तत्वात् ।


१०४
 
  1. वताकत्वा ।