- "संप्राप्ते पार्वणश्राद्ध एकोद्दिष्टे तथैव च ।
- अग्रतो वैश्वदेवः स्यात्पश्चादेकादशेऽहनि" इति परिशिष्टात् ।
- "श्राद्धात्प्रागेव कुर्वीत वैश्वदेवं तु साग्निकः ।
- ऐकादशाहिकं मुक्त्वा तत्र ह्यन्ते विधीयते" इतिशालङ्कायनवचनाच्च ।
एवं साग्निकस्य श्राद्धात्प्रागेव नियमाद्यानि श्राद्धमध्ये विकिरान्ते ब्राह्मणविसर्जनान्ते च वैश्वदेवविधायकानि तान्यनग्निविषये व्यवतिष्ठन्ते । न चाग्निमदनग्निमद्विषयं पक्षत्रयमविशेषादिति वाच्यम् ।
"वैश्वदेवमकृत्वैव श्राद्धं कुर्यादनग्निकः । |
इति वसिष्ठेन विशेषाभिधानात् ।
अनग्निकस्य त्रयः काला वैश्वदेवे--एकः श्राद्धमध्येऽपरो बलिदानान्तेऽन्यो ब्राह्मणविसर्जनान्ते ।
तत्र मध्यकर्तव्यता ब्र[१]ह्माण्डपुराणे--
"वैश्वदेवाहुतीरग्नावर्वाग्ब्राह्मणभोजनात् |
अर्वाग्ब्राह्मणभोजनादित्यनेनाग्नौकरणानन्तरं वैश्वदेवाहुतीर्जुहुयादित्यु[२]क्तं भवतीति हेमाद्रिः । अत्र भूतयज्ञादेः श्राद्धानन्तरकर्तव्यताविधानादस्मिन्प्रयोगे यानि भूतयज्ञोत्तरभावीनि कर्माणि संबन्धक्रमाणि तानि तदाद्युत्कर्षन्यायेनोत्कृष्टानि श्राद्धान्ते कर्तव्यानि न तु भूतयज्ञात्पूर्वभावीन्युत्क्रष्टव्यानि । स च न्याय इत्थं जैमिनिनोक्तः--"अङ्गानां मुख्यकालत्वाद्यथोक्तमुत्कर्षः स्यात्" इति । अग्नीषोमीये पशौ हविरासादनोत्तरं प्राप्तानां प्रयाजानां तिष्ठन्तं पशुं प्रयजन्तीत्यपकर्षः श्रुतः । तथा सवनीयेऽनूयाजानामाग्निमारुतादूर्ध्वमनूयाजैश्वरन्तीत्युत्कर्षः । स तावन्मात्रस्यैवेति प्राप्ते प्रयाजमात्रापकर्ष आघारानन्तर्यस्य प्रकृतिप्राप्तस्य बाधापत्तेर्बद्धक्रमस्य प्रयाजान्तकाण्डस्यापकर्षः । एवमनूयाजमात्रस्योत्कर्षे सूक्तवाकप्राग्भावित्वस्य प्रकृतिप्राप्तस्य बाधापत्तेर्बद्धक्रमस्यानूयाजादिकाण्डस्योत्कर्ष इति सिद्धान्त इति न्यायः । यच्छाखायां बलिहरणादिकमेव भूतयज्ञादिकं तेषां बलिहरणादिकस्यैवोत्कर्षः ।
येषां तु बलिहरणादिव्यतिरिक्ता भूतयज्ञादयस्तेषां बहिर्बलिव्यतिरिक्तभूतयज्ञावधिकानां बलिहरणादीनामपि श्राद्धमध्ये कर्तव्यता भवतीति विवेकः ।