पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९५६
[वैश्वदेवकालनिर्णयः]
भट्टगोपीनाथदीक्षितविरचिता--

द्यदि" इति शौनकेन स्पष्टतया तस्याधिकारप्रतिपादनात् । यत्तु स्मृत्यर्थसारे--"स्नातको ब्रह्मचारी च पृथक्पाकी वैश्वदेवं कुर्यात्' इत्युक्तं तदापत्कालिकं बोध्यम् । इति वैश्वदेवविधिः ।)

अथ वैश्वदेवकालनिर्णयः ।

 तत्र साग्नेर्वैश्वदेवकालमाह लौगाक्षिः--

"पक्षान्तं कर्म निर्वर्त्य वैश्वदेवं तु साग्निकः ।
पिण्डयक्षं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः" इति ॥

 पक्षान्तं कर्मान्वाधानम् । अन्वाहार्यकं दर्शश्राद्धम् ।

 पक्षान्तपिण्डपितृयज्ञयोर्मध्ये विधानादेव वैश्वदेवस्य साग्निककर्तृकत्वावगतेः पुनः साग्निकशब्दोपादानस्य वैयर्थ्यापानात्साग्निकशब्दोपादानमन्वाधानपिण्डपितृयज्ञकर्तुरौपासनाग्निमतो निवृत्त्यर्थमिति हेमाद्रिमदनपारिजातादयः ।

 नवीनास्तूक्तरीत्यैवाविशेषेण श्रौतस्मार्ताग्निमतोरुभयोरपि वैश्वदेवकर्तृकत्वावग[१]मात्साग्निकपदस्यानुवादकत्वमेव न तु स्मार्ताग्निमन्निवर्तकत्वं श्रौताग्निमत एव निवर्तकत्वेन वैपरीत्यस्यापि सुवचनादतोऽनुवादकत्वमेव युक्तमित्याहुः ।

 देवलोऽपि वैश्वदेवानन्तरमेव पिण्डपितृयज्ञादिकर्तव्यतामाह --

"अकृते वैश्वदेवे तु स्थालीपाकः प्रकीर्तितः ।
अन्यत्र पिण्डयज्ञात्तु सोऽपराह्णे विधीयते" इति[२]

 अत्र स्थालीपाकशब्देन स्थालीपाककर्माण्युच्यन्ते । एतानि कर्माणि वैश्वदेवापूर्वमेव कर्तव्यानि । पिण्डपितृयज्ञस्यापि स्थालीपाकसाध्यत्वेन तस्यापि पूर्वत्र कर्तव्यतायां प्राप्तायामपवादोऽन्यत्रेति, पिण्डपितृयज्ञादन्यत्रेत्यर्थः ।

 दर्शश्राद्धस्य पिण्डपितृयज्ञानन्तर्यमाह मनुः--

"पिण्डयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम्" इति ॥

 इमानि लौगाक्ष्यादिवचनानि एकदिनप्रसक्तानामन्वाधानादीनां क्रमाकाङ्क्षायां तन्मात्रमेव विदधते न कमपि पदार्थं तेन कदाचित्पिण्डपितृयज्ञस्योत्तरदिनकर्तव्यत्वेऽपि न क्षतिः । यानि श्राद्धात्पूर्वं वैश्वदेवकर्तव्यताप्रतिपादकानि वचनानि तानि सर्वाणि लौगाक्ष्यादिवचनानुसारेण साग्निकविषयाणि व्यवस्थापनीयानि । तस्या(न्ना(?))प्येकादशाहश्राद्धे पश्चादेव ।


  1. च. गतेः साग्नि ।
  2. क. ख. ङ. ति । स्था ।