पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अनग्निकस्य वैश्वदेवे विशेषः]
९५५
संस्काररत्नमाला ।

 अग्न्यादिरग्निवाय्वादिदेवत्यः, भूरादिव्याहृतिकरणक इत्यर्थः । अ[१]पिरेवकारार्थः । अनग्निकस्य त्वेष एव युज्यत इत्यन्वयः ।

विष्णुरपि--

"अन्नं व्याहृतिभिर्हुत्वा ततो मन्त्रैश्च शाकलैः ।
प्राजापत्यं हविर्हुत्वा पूजयेदतिथिं ततः" इति ॥

 प्राजापत्यं हविरिति प्रजापतये स्वाहेत्येकामाहुतिं हुत्वेत्यर्थः । पूजयेदतिथिं तत इति तु स्वकालीनमनुष्ययज्ञानुवादमात्रं न तु होमानन्तरमेव तद्विधिः ।

 [२]स्मृतिसारे--

"अनग्निकस्य विप्रस्य होमः शाकलमन्त्रकैः ।
भूतपित्र्यबली पश्चादतिथिं पूजयेत्ततः" इति ॥

 भूतपित्र्यबली स्वस्वगृह्योक्तप्रकारे[३]ण । प्रत्येकजात्यभिप्रायेण द्विवचनं, तेन सर्वेऽपि बलयः कार्याः । नातो युज्यते बलिभिः सहेत्यनन्तरोदाहृतकर्मप्रदीपवचनेन सह विरोधः ।

 केचित्तु भूतेभ्यो नमः पितृभ्यः स्वधा नम इत्येवं भूतपित्र्यबलिहर[४]णं द्विवचनस्वारस्यादि[५]ति वदन्ति ।

 स्मृत्य[६]र्थसारे--"स्नातको ब्रह्मचारी वा पृथक्पाको वैश्वदेवं कुर्यात्" इत्युक्तत्वात्तयोरप्यनेनैव प्रकारेण वैश्वदेवो ज्ञेयः । ([७]नियमं विनाऽधीतबलिहरणमन्त्रश्चेद्बलिहरणमन्त्राध्ययनाङ्गभूतव्रतानाचरणनिमित्तप्रायश्चित्तानुष्ठानपूर्वकमयं वैश्वदेवः कार्यः । प्रायश्चित्तं तु प्रागुक्तमेव । सूत्रोक्तवैश्वदेवानुष्ठानकाले पुनः षडाहुतिमन्त्राध्ययनाङ्गभूतव्रतानाचरणनिमित्तं प्रायश्चित्तं कृत्वा सूत्रोक्तो वैश्वदेवः कार्यः । सहैव वैतत्प्रायश्चित्तद्वयं कार्यम् । वस्तुतस्तु ब्रह्मचारिणो वैश्वदेवो न भवति । "भैक्षेण वर्तयेन्नित्यम्" इति ब्रह्मचारिप्रकरणे मनूक्तेः "यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ" इति पराशरोक्तेश्च तस्य पाकाभावात् । पञ्चयज्ञाधिकारे गृहीतिशङ्खस्मरणाच्च । न च स्नातकस्यापि गृही(हि)त्वाभावान्नाधिकार इति वाच्यम् । "स्नातकेनापि तत्कार्यं पृथक्पाको भवे


  1. ख. ङ. अन ।
  2. च. स्मृत्यन्तरे ।
  3. ख. ङ. रेणेति केचित् । भूते ।
  4. ङ. रणमित्यन्ये । स्मृ ।
  5. ख. दित्यनेन(न्ये) । स्मृत्यर्थसारे प्रयोगपारिजाते शौनकः--"वैश्वदेव(वे) गृहस्थस्य प्रातरारम्भणं भवेत् । स्नातकेनापि तत्कार्यं पृथक्पाको भवेद्यदि" इति । स्मृ ।
  6. ख. त्यन्तरे--स्ना ।
  7. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।