पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९४४
[वैश्वदेवविहितहविर्द्रव्यविचारः]
भट्टगोपीनाथदीक्षितविरचिता--

 क्षार[१]गण उक्तः संग्रहे--

"तिलमुद्गादृते शैब्यं सस्ये गोधूमकोद्रवौ ।
शू(शु)क्तं च देवधान्यं चेत्येष क्षार[२]गणः स्मृतः" इति ॥

 यद्भक्ष्यमाणं पश्यतो लालोत्पद्यते तत्क्षारं गुडादीत्युज्ज्वलाकृत् । अयं च क्षारहोमनिषे[३]धो गोधूमव्यतिरिक्तपरः । गोधूमा ब्रीहयश्चेति पूर्वोदाहृतस्मृत्यन्तरवाक्ये तेषां वैश्वदेवे होमसाधनत्वेन ग्रहणात् । शू(शु)क्तं पर्युषितम् ।

([४]अग्निपुरा[५]णेऽपि--

"तिलमुद्गादृते शैव्यं सस्ये गोधूमकोद्रवौ ।
चीनकं देवधान्यं च शमीधान्यं तथै[६]क्षव[म्] ।
स्विन्नधान्यं तथोखर्यं मूलं क्षारगणः स्मृतः ।
जुहुयाद्व्यञ्जनक्षारवर्जमन्नं हुताशने" इति ॥

 चीनकाः कलायाः । उखर्यमुखरभूमिभवं मूलम् ।

 वैश्वदेवे निषिद्धद्रव्याण्युक्तानि काशीखण्डे--

"निष्पावान्कोद्रवान्माषान्कलायांश्चणकांस्त्यजेत् ।
तैलपक्वं च पक्वान्नं सर्वं लवणयुक्त्यजेत् ॥
आढकीश्च मसूराश्च वर्तुलान्वरटांस्तथा
भुक्तशेषं पर्युषितं वैश्वदेवे विवर्जयेत्" इति ॥

 निष्पावा वल्लाः । कलाया: 'मठर' इति प्रसिद्धाः । आढक्यस्तुवर्यः । वरटा धान्यविशेषः )। हविष्याहविष्यसत्त्वे तु--एकद्रव्यकृतेन वैश्वदेवेनेतरहविष्यान्नसंस्कारसिद्धिवदहविष्यान्नस्यापि संस्कारसिद्धेर्नैतत् । किं तु सर्वमप्यन्नमहविष्यं तदेति द्रष्टव्यम् । ([७] एतेन फलादिना वैश्वदेवं कृत्वाऽन्न[८]मसंस्कृतमेव तद्भोज्यमिति, गृहमेधिनो यदशनीयस्य होमा बलयश्चेत्यापस्तम्बेनोक्तेस्तेनैव कार्य इति मतद्वयं निरस्तं द्रष्टव्यम् ।) अत एव प्रकरणं परित्यज्य पृथगुक्तं सूत्रकृता । अत्र व्रतविशेष उक्तो धर्मसूत्रे--

"तेषामुपयो[९]गे द्वादशाहं ब्रह्मचर्यमधःशय्या क्षारलवणमधुमांसवर्जनं चोत्तमस्यैकरात्रमुपवासः" इति ।

 तेषां होमानां बलीनां च ये मन्त्रास्तेषामुपयोगे नियमपूर्वके ग्रहणे द्वादशाहं


  1. क. ख. ङ. रगुण ।
  2. क. ख. ङ. रगुणः ।
  3. क. ख. ङ. षेधः स गो ।
  4. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  5. क. राणेति ।
  6. क. थैव च । स्वि ।
  7. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
  8. च. न्नस ।
  9. च. योगो द्वा ।