पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९४०
[वैश्वदेवविहितहविर्द्रव्यविचारः]
भट्टगोपीनाथदीक्षितविरचिता--

विनियोगो बलावेव विनियोगो वेति विकल्पः सूपन्यायेन पत्रादिष्वपि द्रष्टव्यः । अत एवाऽऽश्वलायनेन मुख्यव्यञ्जनसाधारण्येन सिद्धशब्दः प्रयुक्तः । अत एव मुख्यान्नाभावे हविष्यरूपव्यञ्जनहोमः स्मृत्युक्तः संगच्छते । यदि हविष्यरूपव्यञ्जनस[१]त्त्वे तस्य होमो न स्यात्स्मृत्युक्तः । मुख्यान्नाभावे केवलहविष्यरूपव्यञ्जनहोमो विप्लवेन । हविष्यव्यञ्जनान्वितैरिति विशेषणं सपत्नीकत्वविशेषणवत्सद्भावाभिप्रायं ज्ञेयम् । तेन हविष्यव्यञ्जनान्वितताया न नियमः । यदि तु पत्रशाकादेर्व्यञ्जनस्यैव लाभो न त्वन्नस्य तत्र नागृहीतविशेषणन्यायेन स्मृतिभिश्च विशेष्यस्यालाभवशेन बाधेऽपि विशेषणीभूतकेवलव्यञ्जनेनैव होमः । एवमेकादश्यादावपि द्रष्टव्यम् ।)

 यत्तु वैश्वदेवं प्रकृत्य--

"उपरिष्टात्स्थिते पात्रे क्रिया चुल्ल्यामपि स्मृता" ।

 इति संग्रहनाम्ना पठन्ति केचिद्वचनं तन्निर्मूलमापद्विषयं वा बोध्यम् । वैश्वदेवः शृतान्नेन हविष्येणैव कार्यः ।

"अथ सायंप्रातः सिद्धस्य हविष्यस्य जुहुयात्"

 [२] इत्याश्वलायनोक्तेः। ([३] आश्वलायनसूत्रे सिद्धशब्दः पक्वतापरः । तेन दध्यादिव्यावृत्तिः । व्यासवचने 'हविष्यव्यञ्जनान्वितैः । इत्यनेन सामुद्रसैन्धवलवणान्वितेन होमः प्राप्नोति । न क्षारलवणहोमो विद्यते तथा वरान्नसंसृष्टस्य' इति सत्याषाढापस्तम्बोक्ती अपि निरपेक्षलवणनिषेधेन यद्यपि व्याख्यातुं शक्येते तथाऽपि--

"जुहुयात्सर्पिषाऽभ्यक्तं तैलक्षारविवर्जितम् ।
दध्यक्तं पयसाऽभ्यक्तं तदभावेऽम्भसाऽपि वा"

 इति व्यासोक्तो लवणसंसृष्टस्यापि निषेधः प्राप्नोत्येव ।


  1. च. सत्त्वस्य ।
  2. "जुहुयादित्येतस्मात्परं स्मृत्यन्तरे हविष्याण्युक्तानीत्येतस्मात्पुर्वं विद्यमानस्य ग्रन्थस्य स्थाने ङ. पुस्तके विद्यमानो ग्रन्थो यथा--"इत्याश्वलायनोक्तेश्च । यद्युपचासयशेन कन्दमूलफलाहारस्तदा तेनैव वैश्वदेवः कार्यः । शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् । संकल्पयेद्यदाहारस्तेनैव जुहुयादपीति गृह्यपरिशिष्टात् । गृहमेधिनो यदशनीयस्य होमा बलयश्चेति सूत्राच्च । गृहमेधिनो यदशनीयं पक्वमपक्वं वोपस्थितं तस्यैकदेशेन होमा बलयश्च वक्ष्यमाणाः कर्तव्याः । स्वर्गः पुष्टिश्च तेषां फलमिति व्याख्यातमुज्ज्वलाकृता । पक्वमग्निसंयोगाज्जातपाकमोदनादि । एतद्भिन्नमपक्वं फलादीति द्रष्टव्यम् । एतदपि हविष्यं ज्ञेयम् । न क्षारलवणहोमो विद्यते तथाऽयज्ञसंसृष्टस्येत्यहविष्यहोमनिषेधात् ।" इति ।
  3. धनुश्चिह्नान्तर्गतं नास्ति ख. पुस्तके ।