"वैश्वदेवविशुद्धोऽसौ विष्णवेऽन्नं निवेदयेत्" इति मनूक्तेः, |
इति बह्वृचपरिशिष्टोक्तेः,
"वैश्वदेवं पुरा कृत्वा[१] नैवेद्यं विनिवेदयेत् । |
इति स्मृतेश्चाऽऽदौ वैश्वदेवस्ततो नैवेद्यनिवेदनमित्येव क्रम इत्याहुः ।
अत्र यथासंप्रदायं व्यवस्था । प्रथमः क्रमो रामार्चनचन्द्रिकाकारादिभिर्निष्ठावैष्णवैरादृतत्वात्तत्परः । द्वितीयस्तु स्मार्तपरः । प्रयोगपारिजातादिभिस्तदनुरोधेनैव प्रयोगस्य प्रदर्शनाद्व्यवस्थितो वा संप्रदायः ।
नैवेद्यसमर्पणात्पूर्वं वैश्वदेवकरणे विशेष उक्तः प्रयोगसारे स्मृत्यन्तरे--
"देवार्थमन्नमृद्धृत्य वैश्वदेवं समाचरेत् । |
नैवेद्यसमर्पणात्पूर्वं वैश्वदेवकरण इदमपि साधन(क)म् । )
रा[२]त्रिविषयेऽपि तत्रैव--
"रात्रौ तु देवं नीराज्य वैश्वदेवं समाचरेत्" इति । |
उभय[३]त्र वैश्वदेवानुष्ठानासंभवे प्रातरेव द्विरावृत्त्या सह वा कार्यः ।
यथोक्तमाश्वलायनेन--
"प्रातरेव द्विरावृत्त्या कुर्याद्वा स[४]ह तौ द्विजः" इति । |
([५] अत्र प्रातःकालः पूर्व एव ग्राह्यः, सर्वेषां कल्प(ल्पा)नां प्रथमप्रयोगमारभ्यैव प्रवृत्तेः सर्वत्र दर्शनात् । एवं चात्रापकर्ष एव सायंवैश्वदेवस्य भवति । उत्तरः(र)प्रातःकालेऽनुष्ठानस्य तु सामान्यशास्त्रादेव सिद्धेर्न विध्यपेक्षेति द्रष्टव्यम् ।) प्रातरेव द्विरावृत्तिपक्षे प्रातर्वैश्वदेवं कृत्म्नं कृत्वा पश्चात्संकल्पप्रभृतिविधिना सायं वैश्वदेवं कुर्यात् । ततो मनुष्ययज्ञादिसहत्वपक्षेऽपि संप्रतिपन्नदेवताकत्वात्सकृदेव कार्यः । तत्र प्रातःसायंवैश्वदेवाख्यं कर्मद्वयं तन्त्रेण करिष्य इति संकल्पवाक्ये विशेषः । वैहायसबलिस्तु तन्त्रपक्षेऽपि सायंवैश्वदेवान्त एव यथावस्थितपाठेन देयः । भोजनाभावेऽपि प्रातर्वैश्वदेवस्यालोपव