पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[शूलगवाख्यकर्मप्रयोगः]
९१३
संस्काररत्नमाला ।

 ततः कृष्णाजिनास्तरणादि स्वयमेवावहत्य त्रिष्फलीकृत्य पयसि श्रपयति । न वा निर्वापादि । किं तु पर्याप्तान्व्रीहीन्गृहीत्वा पत्न्याऽवघातं कारयित्वा तन्निष्पन्नांस्तण्डुलान्सक्षीरायां स्थाल्यामोप्य श्रपयति । कृष्णाजिनासादनमत्र कृताकृतम् । पर्यग्निकरणं तु कर्तव्यमेव ।

 ततः स्रुवदर्व्यौ संमृज्याऽऽज्यसंस्कारं कुर्यात् । त[१]त्राऽऽज्येन सह चरोरपि पर्यग्निकरणम् ।

 ततः शृतं चरुं स्रुवेणाभिघार्योद्वास्य बर्हिषि निधायापरेणाग्निं द्वे कुटी दक्षिणोत्तरे प्राग्द्वारे कृ[२]त्वा 'ॐ आ त्वा वहन्तु० शर्वो३म्' इति दक्षिणस्यां कुट्यां शूलगवं रुद्रमावाहयति ।

 तत उत्तरस्यां कुट्यां मीढुषीमावाहयामीति शूलगवस्य पत्नीं मीढुषीमावाह्य तयोः कुट्योरन्तराले जयन्तमावाहयामीति शूलगवस्य पुत्रं जयन्तमावाहयति ।

 केचित्तु--आ त्वा वहन्त्वित्यनेनैव शोर्वो३मित्येतस्य स्थाने मीढुषो३म् जयन्तो३म्, इति यथायथमूहितेन मीढुषीजयन्तयोरावाहनं कार्यमिति वदन्ति ।

 तत आवाहनक्रमेणैताभ्यो देवताभ्यस्त्रींस्त्रीनुदकाञ्जलीन्दद्यात् । ततस्त्रिषूद्धरणपात्रेषूपस्तीर्य स्थालीपाकं त्रिषु पात्रेषु व्युद्धृत्याभिधारयति ।

 ततः, 'ॐ उपस्पृशतु मीढ्वान्मीढुषे स्वाहा' इति मन्त्रमुच्चार्य शूलगवाय मीहुषेऽयमोदनो न ममेत्युक्त्वा तत्संनिधावोदनं स्थापयति ।'ॐ उपस्पृशतु मीढुषी मीनुष्यै स्वाहा' इति मन्त्रमुच्चार्य शूलगवस्य पत्न्यै मीढुष्या अयमोदनो न ममेत्युक्त्वा द्वितीयमुद्धृतमोदनं शूलगवस्य पत्न्या मीढुष्याः [३]संनिधौ स्थापयति । 'ॐ जयन्तमुपस्पृशतु जयन्ताय स्वाहा' इति मन्त्रमुच्चार्य शूलगवस्य पुत्राय जयन्तायायमोदनो न ममेत्युक्त्वा तृतीयमुद्धृतमोदनं शूलगवपुत्रस्य जयन्तस्य संनिधौ स्थापयति ।

 ततः परिधिपरिधानादिव्याहृतिहोमान्तं कृत्वा प्रथममोदनमानीय स्रुवेण दर्व्यामुपस्तीर्य तस्मादोदनान्मेक्षणेन द्विरवदायाभिघार्य हविः प्रत्यज्य 'ॐ भवाय देवाय स्वाहा'  इति जुहोति । भवाय देवायदं० । एवं पुन: पुनरवदाय 'ॐ रुद्राय देवाय स्वाहा' 'ॐ शर्वाय देवाय स्वाहा' 'ॐ ईशानाय देवाय स्वाहा' 'ॐ पशुपतये देवाय स्वाहा' 'ॐ उग्राय देवाय स्वाहा'


  1. ख. ङ. च. तत्र चरुणा सहाऽऽज्यस्य । प ।
  2. च. गत्वा ।
  3. सर्वपुस्तकेषु "संनिधावोदनं स्थापयति" इति पाठः ।