पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[श्वग्रहप्रायश्चित्तम्]
संस्काररत्नमाला ।

 रोगसंयुक्ता ये केचन । अन्तर्वत्न्यो गर्भिण्यः ।

इति संस्कारमालायां पद्धतौ बालपितृधर्माः ।

अथ श्वग्रहप्रायश्चित्तम् ।

 श्वग्रहोऽपस्मारः । उन्मत्तः सारमेय इत्येके । अथवा येन गृहीतः श्वेव वदति श्ववद्व्याचष्टे स श्वग्रहः । महाव्याधिश्चायं, तस्य नाशाय प्रायश्चित्तं भेषजं वक्ष्यमाणं कर्म कर्तव्यम् । कर्ता कर्माङ्गत्वेनाधिकं यज्ञोपवीतं धृत्वाऽऽचम्य नूतनेन शरावेणोदकमाहृत्य कितवसभायां मध्येऽधिदेव[१]नमुद्धत्यावोक्ष्य विभीतकान्यथार्थान्न्युप्य प्रतिदिशं विभज्य पुनस्तानेकधा कृत्वा यथा तेषु शाययितुं शक्यते तथा तान्प्रसार्य सभाया उपरिष्टात्तृणैराच्छाद्यैकत्र मार्गं कृत्वा तेन मार्गेण ग्रहगृहीतं कुमारं सभामध्ये प्रवेश्य तेषु विभीतकेषूत्तानं शाययित्वा दध्ना लवणोदकमिश्रितेन तं प्रोक्षति--

"कुर्कुरः सुकुर्कुरः कुर्कुरो नीलबन्धनः । औलव इत्तमुपाह्वयतार्जिमच्छबलो अथो राम उलुम्बरः । सारमेयो ह धावति समुद्रमिव चाकशत् । बिभ्रं निष्कं च रुक्मं च शुनामग्र सुवीरिणः । सुवीरिणः सृज सृजैकव्रात्य सृज शुनक सृजच्छत् । टेकश्च ससरमटङ्कश्च तूलश्च वितूलश्च । अर्जुनश्च लोहितश्चोत्सृज त्व शितिम्न त्वं पिशंकरो हतः । अमी एके सरस्यका अवधावति तृतीयस्यामितो दिवि । छदये हि सीमरम सारमेय नमस्ते अस्तु सीसर । दूत्या ह नाम वो माता मण्डाकको ह वः पिता । छदये हि सीसरम सारमेय नमस्ते अस्तु सीसर । दुला ह नाम वो माता मण्डाकको ह वः पिता । छदये हि सीसरम सारमेय नमस्ते अस्तु सीसर । समश्वा वृषण: पदो न सीसरीदतः । छदये हि सीसरम सारमेय नमस्ते अस्तु सीसर । संतक्षा हन्ति चक्रिणो न सीसरीदतः । छदये हि सीसरम सारमेय नमस्ते अस्तु सीसर" इति ।

 एतैः प्रतिमन्त्रं तस्य कुमारस्य दक्षिणतः प्रोक्षणसमये यः कश्चन पुरुषः कांस्यं ताडयति । सूत्रे बहुवचनमनियतकर्तृकत्वार्थम् । प्रधानेऽभ्युक्षण एवैते मन्त्राः । न त्वङ्गभूते कांस्यताडने । अभ्युक्षणस्य प्रधानत्वं तु कुमारसंस्कारत्वात्संनिपत्योपकारकत्वाच्च ।

 ततो वरं वृणीष्वेति कर्ता ब्रूयात् । ततः कुमार एवाहं वरं वृण इति वदेत् ।


  1. च. वयज्ञन ।