पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अनुपनीतधर्माः]
९०९
संस्काररत्नमाला ।

स्मृतिश्च, अस्मिन्नर्थे स्मृतिरपि भवति प्रागुपनयनात्कामचारकामवादकामभक्षा इति । ([१]माधवीये विष्णुपुराणे--

"भक्ष्याभक्ष्ये तथा पेये वाच्यावाच्ये तथाऽनृते ।
अस्मिन्काले न दोषः स्यात्स यावन्नोपनीयते" इति ॥

 गौतमोऽपि--"प्रागुपनयनात्कामचारकामवादकामभक्षाः" इति ।)

 कामचार इच्छागतिः । कामवादोऽश्लीलादिभाषणम् । कामभक्षः पर्युषितादिभक्षणम् । एतदपवादस्तत्रैव स्मृत्यन्तरे--

"स्यात्कामचारभक्षोक्तिर्महतः पातकादृते" इति ।

 महापातके तु पित्रा भ्रात्रा वा प्रायश्चित्तं कर्तव्यम् ।

तदुक्तं जातूकर्ण्येन--

"अनुपेतस्तु यो विप्रो मद्यं मोहात्पिबेद्यदि ।
तस्य कृच्छ्रत्रयं कार्यं पित्रा भ्रात्राऽपि वा तथा" इति ॥

 अन्यच्च--

"वैश्वदेवं पुरोडाशमग्निमध्ये तु यद्धुतम् ।
प्रमादाच्छिशुराकर्षन्पित्रा रक्ष्यः प्रयत्नतः" इति ॥

 आचारविषय आह वसिष्ठः--

"न ह्यस्य विद्यते कर्म किंचिदामौञ्जिबन्धनात् ।
वृत्त्या शूद्रसमस्तावद्यावद्वेदो न जायते" इति ॥

गौतमः--

"यथोपपादितमूत्रपुरीषो भवति न तस्याऽऽचमनकल्पो विद्यते
न ब्रह्माभिव्याहरे(हारये)दन्यत्र स्वधानिनयनात्" इति ।

 यथोपपादितेत्यनेन दिवा संध्यासूदङ्मुखत्वं रात्रौ दक्षिणामुखत्वमित्यादिनियमाभावो ज्ञाप्यते । कल्पग्रहणादितिकर्तव्यताया एव निषेधो न त्वाचमनस्य । अन्यथा न तस्याऽऽचमनं विद्यत इत्येवं ब्रूयात् । अत एव 'शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः' इतियाज्ञवल्क्यवचोव्याख्यावसरे विज्ञानेश्वरेण चकारादनुपनीतोऽपीत्युक्तम् ।

 रजस्वलादिस्पर्शे तु पारिजाते स्मृतिदीपिकायां व्यवस्थोक्ता--

"शिशोरभ्युक्षणं प्रोक्तं बालस्याऽऽचमनं स्मृतम् ।
रजस्वलादिस्पर्शे तु स्नानमेव कुमारके ॥
प्राक्चूडाकरणाद्बालः प्रागन्नप्राशनाच्छिशुः ।
कुमारकस्तु विज्ञेयो यावन्मौञ्जीनिबन्धनम् " इति ।

 विज्ञानेश्वरोक्तमनुपनीताचमनमकुमारावस्थायां बोध्यम् । रजस्वलादि


  1. धनुश्चिह्नान्तर्गतं ङ. च. पुस्तकयोर्नास्ति ।