पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९०८
[बालानां वाक्शुद्ध्युपायः]
भट्टगोपीनाथदीक्षितविरचिता--
( अनुपनीतधर्माः )
 

अथ बालानां वाक्शुद्ध्युपायः ।

"वचा ब्राह्मी च मण्डूका घनं(नः)कुष्ठं सनागरम् ।
घृतेन परिदेयं च चूर्णं वाक्पटुकारणम् ॥
गुडूचिकाऽपामार्गश्च विडङ्गं शङ्खपुष्पिका ।
विष्णुक्रान्ता वचा पथ्या नागरं च शतावरी ॥
चूर्णं घृतेन संमिश्रं लिह्यात्प्रज्ञां विवर्धयेत् ।
त्रिभिर्दिनैः सहस्रैकं श्लोकानामवधार्यते ॥
त्रिकटु त्रिफला धन्या यवानी शतमूलिका ।
वचा ब्राह्मी तथा भार्ङ्गी चूर्णं समधु लेहितम् ॥
वाक्पटुत्वं च बालानां वीणावाद्यसमस्वरम्" इति ।

 वचा वेखण्डम् । ब्राह्मी प्रसिद्धा । मण्डूकाऽस्तपर्णी । घनो नाम मुस्ता । कुष्ठं प्रसिद्धम् । नागरं शुण्ठी । गूडचिका गुळवेली । अपामार्ग आघाडा । विडङ्गं वायविडङ्गम् । शङ्खपुष्पी श्वेतपुष्पी प्रसिद्धा । विष्णुक्रान्ता प्रसिद्धा । पथ्या हरीतकी । सर्वत्र हरीतकीग्रहणे दलं ग्राह्यमिति वैद्यकपरिभाषा । त्रिकटु शुण्ठि मिरे पिप्पली । धन्या धणे । यवानी ओंवा । अन्यानि प्रसिद्धानि । हिरडा बेहडा आवळकठी त्रिफला ।

अथ संक्षेपेणानुपनीतधर्माः ।

तत्रेदं धर्मसूत्रम्--

"आऽन्नप्राशनाद्गर्भा नाप्रयता भवन्त्यापदि संवत्सरादित्येके यावता वा दिशो न प्रतिजानीयुरोपनयनादित्येकेऽत्र ह्यधिकारः शास्त्रैर्भवतीति सा निष्ठा स्मृतिश्च" इति ।

 व्याख्यातमेतदुज्ज्वलाकृता--अन्नप्राशनात्प्राग्गर्भा बाला अप्रयता न भवन्ति रजस्वलास्पर्शेऽपि । यावत्संवत्सरो न पूर्येत तावन्नाप्रयता गर्भा आपदीत्येके मन्यन्ते । यावद्दिग्भागज्ञानं नास्ति तावन्नाप्रयता भवन्ति । उपनयनादर्वाङ्नाप्रयता इत्येके मन्यन्ते । तत्रोपपत्तिः--अत्र ह्यधिकारः शास्त्रैर्भवतीति । यस्मादत्रोपनयने विधिनिषेधशास्त्रैरधिकारो भवति । इतिकरणं हेतौ । सा निष्ठा । उपनयनमपि परामृशतस्तच्छब्दस्य निष्ठाशब्दसामानाधिकरण्यात्स्त्रीलिङ्गता । सा निष्ठा तदुपनयनमवसानम[१]नधिकारस्येति ।


  1. ङ. च. मधि ।