पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अथ संस्काररत्नमालाया उत्तरार्धम् ।


अथात्र गृह्यसूत्रस्य द्वितीयः प्रश्न आरभ्यते ।


तत्र पुंसवनम् ।

 तच्च गृह्ये--"अथातः पुंसवनं तृतीये मास्यापूर्यमाणपक्षे पुण्ये नक्षत्रे" इति ।

 सीमन्तोत्तरं पुंसवनकथनं तु कालानित्यत्वसूचनार्थं प्रतिगर्भमावृत्तिसिद्ध्यर्थं च ।

गर्गः--"व्यक्ते गर्भे भवेत्कार्यं सीमन्तेन सहाथ वा" इति

 व्यक्ते गर्भेऽस्ति गर्भ इति निश्चिते । पुंसवनानुवृत्तौ नारदः--

"चतुर्थे मासि पष्ठे वाऽप्यष्टमे वा शुभे दिने" इति ।

 बृहस्पतिः--

"तृतीये मासि कर्तव्यं गृष्टेरन्यत्र शोभनम् ।
गृष्टेश्चतुर्थमासे तु षष्ठे वाऽप्यथ वाऽष्टमे" इति ॥

 गृष्टिः सकृत्प्रसूता । याज्ञवल्क्यः-- "पुंसः सवनं स्पन्दनात्पुरा" इति ।

 स्पन्दनं चलनम् ।

 तस्य कालः शारीरके-- "तस्माच्चतुर्थे मासि चलनादावभिप्रायं करोति" इति ।

 गर्भाभिव्यक्तिकालो बृहस्पतिनोक्तः--

"गर्भो व्यक्तस्तृतीये स्याश्चतुर्थे मासि वा भवेत् " इति ।

 अत्र मासः सावनो ग्राह्यः । तदुक्तं वसिष्ठेन--

"चतुर्थे सावने मासि पष्ठे वाऽप्यथ वाऽष्टमे" इति ।

 सावन इत्यस्य षष्ठाष्टमयोरपि संबन्धः ।

"मासि प्रोक्ताः क्रिया याः स्युस्ताः सर्वाः सौरमानतः" ।

 इत्यस्यापवादः । मदनरत्ने कालविधाने--

"कुर्यात्पुंसवनं प्रसिद्धिविषये गर्भे तृतीयेऽथवा
मासि स्फीततनौ तुषारकिरणे पुष्येऽथवा वैष्णवे ॥
हित्वा कर्कटकं नृयुग्ममबलामन्येष्वरिक्तातिथौ
शुद्धे नैधनधाम्नि शुक्रशशभृद्विन्मन्त्रिणां वासरे" इति ॥