पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/८१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[गृहनिर्माणप्रयोगः]
८०५
संस्काररत्नमाला

 नक्षत्राणि गर्गेणोक्तानि--

"त्र्युत्तरामृगरोहिण्यः पुष्यमैत्रकरत्रयम् ।
धनिष्ठाद्वितयं पौष्णं गृहारम्भे प्रशस्यते" इति ॥

 करत्रयं हस्तचित्रास्वातयः । धनिष्ठाद्वितयं धनिष्ठाशततारकानक्षत्रे । पौष्णं रेवती । विस्तरस्तु शान्तिरत्नमालायां द्रष्टव्यः ।

अथ प्रयोगः ।

 कर्तोदगयने शुक्लपक्षे रोहिण्युत्तरा(र)फल्गुन्युत्तराषाढोत्तरा(र)प्रोष्ठपदान्यतमे नक्षत्रेऽसंभवेऽन्यस्मिन्नपि ज्योतिःशास्त्रविहिते नक्षत्रे ज्योतिर्विदादिष्टे मुहूर्ते कृतनित्यक्रिय आचम्य प्राणानायम्य देशकालौ संकीर्त्य शालां कारयिष्यन्होमं करिष्य इति संकल्प्य गणेशपूजनादिनान्दीश्राद्धान्तं कुर्यात् ।

 अत्र शालाकरणकर्मणः पुण्याहं भवन्तो ब्रुवन्त्वित्यादिवाक्येषु वास्तोष्पतिः प्रीयतामिति पुण्याहदेवतोल्लेखवाक्ये[१] च विशेषः ।

 तत औपासनाग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा शालाकरणाङ्गभूतहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वाऽङ्गहोमे वरुणं द्वाभ्यामित्यादि व्याहृतिहोमान्तं कृत्वाऽङ्गहोमजयाद्युपहोमादिसंस्थाजपान्तं कृत्वा त्रिवृदन्नहोमपुण्याहादिवाचने कुर्यात् ।

 तत्र शालाकरणहोमकर्मणीत्यन्वाधानवाक्ये विशेषः[२] । अत्रापि वास्तोष्पतिः प्रीयतामित्येव । नास्त्यत्र वैशेषिकहोमः । जयादयस्ते च(स्त्वत्र?) वैकल्पिकाः ।

 ततोऽहतं वासः परिधाय द्विराचम्य देवस्य त्वेत्यस्य सोमोऽग्निर्वा विश्वे देवा वा सविताभ्रिर्यजुः । अभ्र्यादाने विनियोगः । 'ॐ देवस्य त्वा सवि० माददेऽभ्रिरसि नारिरसि' इत्यभ्रिमादाय, परिलिखितमित्यस्य सोमोऽवटो यजुः । परिलेखने विनियोगः । 'ॐ परिलिखित र० अपि कृन्तामि' [इति] त्रिः प्रदक्षिणमवटं परिलिखति सकृन्मन्त्रेण द्विस्तूष्णीम् । एवं प्रत्यवटं यावद्भिरवटैः प्रयोजनं तावतः खात्वा वटसंबन्धिपांसूञ्शालाया अभ्यन्तरं प्रकिरति । उच्छ्रयणक्रमोऽवटानां क्रमः । 'ॐ इहैव ध्रुवां निमिनोमि शालां क्षेमे तिष्ठति घृतमुक्षमाणा । तां त्वा शाले सुवीराः सर्ववीरा अरिष्टवीरा अनुसंचरेम[३] ।' इति द्वारस्थूणयोर्दक्षि[४]णां स्थूणामुच्छ्रयति । उच्छ्रि[तां कृ]त्वाऽवटे स्थापयतीत्यर्थः ।



  1. क. क्येषु च ।
  2. ग. षः । तत्रा ।
  3. क. ख. ङ. म । द्वा ।
  4. क. ख. ङ. क्षिणा स्थ ।