पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/८०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८००
भट्टगोपीनाथदीक्षितविरचिता-- [साग्निकस्य प्रवासप्रयोगः]

चन्द्रिकायां पैठीनसिः--

"प्रस्खलीकृतधर्मस्य पीड्यमानस्य शक्तिभिः ।
मासद्वयं प्रवासोऽस्ति परतो नाऽऽहिताग्निवत्" इति ॥

 मासद्वयस्योपर्यनाहिताग्नेराहिताग्निवत्प्रवासो नास्तीत्यर्थः ।

 अत्र होमार्थं द्विजं प्रकल्प्य प्रवसेदित्युक्तं कूर्मपुराणे--

"निक्षिप्याग्निं स्वदारेषु परिकल्प्यर्त्विजं तथा ।
प्रवसेत्कार्यवान्विप्रो वृथैव न चिरं वसेत्" इति ॥

 अत्र कार्यवानिति धनार्थी न तु तीर्थाद्यर्थी ।

तथा च मण्डनः--

"धनमर्जयितुं युक्तः प्रवासो ह्यग्निहोत्रिणः ।
धनैर्हि संभवेदिज्या तीर्थाद्यर्थं तु न व्रजेत्" इति ॥

 तीर्थाद्यकरणे कारणमाह स एव--

"ब्रह्मा विष्णुः शिवः सूर्यो गौर्विप्राः पितृदेवताः ।
अग्निहोत्रिगृहे सन्ति तीर्थानि च तपांसि च" इति ॥

 मध्ये तीर्थप्राप्तौ स्नानं कर्तव्यमेव, [१]

"धनाद्यर्थं व्रजन्मार्गे यदि तीर्थमवाप्नुयात् ।
शालीनो लभते स्नातुं न तदर्थं पृथग्व्रजेत्" इति[२]

 प्रयाणे मध्ये नौकाधिरोहणप्राप्तौ मृत्पूर्णं शूर्पं निधाय तत्रारणी संनिधं वा संस्थाप्य तपतीं वाऽन्वार[३]भ्यैश्वपारं (?) गच्छेतामिति विशेषः ।

अथ प्रयोगः ।

 प्रवासं करिष्यन्नाचम्य प्रवासं कर्तुमुपस्थानं करिष्य इति संकल्प्य, अभयंकराभयं मे कुरु स्वस्ति मेऽस्तु प्रवत्स्यामीति भस्मच्छन्नमेवाग्निमुपस्थाय 'मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मां तस्थुर्नो अरातयः । उदस्मा उत्तरां नयाग्ने घृतेनाऽऽहुत । रायस्पोषेण स सृज प्रजया च बहून्कृधि' [इति] तस्माद्देशाद्गच्छति । इत आरभ्य वाचं यच्छति यावच्छदींष्यदृश्यानि भवन्ति, अग्निर्वा भवत्यदृश्यस्तावत्पर्यन्तमनन्तरं वाचं विसृजते ।

 मध्ये वाग्यमलोपे--इदं विष्णुरिति वैष्णव्यृग्ज( वर्ग्ज)पं समस्तव्याहृतिजपं च कृत्वा पुनर्वाचं यच्छति । गृहं प्रत्यागमने यदा छदींषि दृश्यानि भवन्ति, अग्निर्वा भवेद्दृश्यस्तावत्पर्यन्तं वाचं यच्छति ।

 ततो गृहगतो हस्तपादप्रक्षालनं कृत्वाऽऽचम्य वाचं विसृज्य, "अभयंकरा



  1. एतदग्रे किंचित्त्रुटितम् ।
  2. क.ख. ति । अथ ।
  3. ङ. रभ्येश्व ।