पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४६
भट्टगोपीनाथदीक्षितविरचिता-- [तृतीया करमाला]

पुष्करं शिखिबीजस्थं सूक्ष्मसूक्ष्मा[१]न्वितं भवेत् ।
आकाशशशिसंयुक्तं सि[२]द्ध्यै हृदयसंयुतम् ॥
एष पञ्चाक्षरो मन्त्रो मालायाः परिकीर्तितः ।
ग्रहणे स्थापने चैव पूजने विनियोजयेत्" इति ॥

 पुष्करं हकारः । शिखी रेफः । सूक्ष्मसूक्ष्मा "ईकारः" । आकाशशशिभ्यां बिन्द्वर्धचन्द्राभ्यां युतम् । सिद्ध्यै स्वरूपम् । हृदयं नम इति । ([३] जपान्ते तां मालां न धारयेत् ।

तदुक्तं तत्रैव--

"न धारयेत्करे मूर्ध्नि कण्ठे वा जपमालिकाम् ।
जपकाले जपं कृत्वा सदा शुद्धस्थले क्षिपेत्" इति ॥

 अन्यच्च(श्च)विशेषस्तन्त्रान्तरे--

"यन्मन्त्रस्य जपार्थं सा(स्या)द्या माला संस्कृता तया ।
तन्मन्त्रस्यैव कुर्वीत जपं नान्यस्य कस्यचित्" इति ।

 अन्योऽपि तन्त्रान्तरे विशेषः--

"शिवमन्त्रेण संग्रथ्य शक्तिमन्त्रं जपेदपि ।
शक्तिमन्त्रेण संग्रथ्य शिवमन्त्रं जपेच्छिवे ॥
ध्रुवेण मातृकाभिर्वा ग्रथ्यन्ते मणयो यदि ।
तदा सर्वेऽभिजप्तव्या मनवो मालया तया" इति । ध्रुवः प्रणवः ।
"प्रमादाद्गलिता हस्तान्माला छिन्नाऽथवा भवेत् ।
स्पृष्टा वा स्यानिषिद्धेन मूलमष्टशतं जपेत्" इति ॥ )

अथ तृतीया करमाला ।

"मध्यमाया मध्यमूलपर्वणी त्रिदशेश्वरि ।
मेरुं कृत्वा जपं कुर्यात्तर्जनीमूलकावधि ॥
अनामामध्यपर्वादि प्रादक्षिण्यक्रमेण वै" इति ।

 ([४] अष्टोत्तरशताष्टोत्तरसहस्रादिसंख्योपयुक्ता करमाला भैरवीतन्त्रे--

"अनामामध्यमारभ्य कनिष्ठानुक्रमेण तु ।
मध्यमामूलपर्यन्ता करमाला प्रकीर्तिता" इति ॥

 गौतमोऽप्याह-- "कनिष्ठानामिकाङ्गुष्ठमध्यमाभिर्जपेत्सदा" इति ।



  1. ङ. क्ष्माञ्चितं ।
  2. ड. सिद्धौ ।
  3. धनुश्चिह्नान्तर्गतो ग्रन्थो ङ. पुस्तके ।
  4. धनुश्चिह्नान्तर्गतो ग्रन्थो ङ. पुस्तके नास्ति ।