७३२
भट्टगोपीनाथदीक्षितविरचिता-- [पुरश्चरणकर्तृधर्माः]
तद्यथा--
"आचक्राय हृदाख्यातं विचक्राय शिरोऽपि च ।
सुचक्राय शिखा पश्चात्त्रैलोक्यरक्षणं ततः ॥
चक्राय कवचं प्रोक्तमसुरान्तकशब्दतः ।
चक्रायास्त्रमिदं कुर्यादङ्गानां पञ्चकं मनोः" इति ॥
|
तन्त्रान्तरे तु--"असुरान्तकचक्राय नेत्रद्वयं सुदर्शनचक्रायास्त्रम् "।
इत्येवमङ्गषट्कमुक्तम् ।
"अग्न्यादिकोणेष्वभ्यर्च्य त्दृदाद्यङ्गचतुष्टयम् ।
दिशा[१]स्वस्त्रं दलेष्वष्टौ महिषीः परिपूजयेत् ॥
रुक्मिणी सत्यभामा च नग्नजित्तनयार्कजा ।
मित्रविन्दा लक्ष्मणा च जाम्बवती सुशीलिका ॥
महिष्योऽष्टौ सुवर्णाभा विचित्राभरणस्रजः ।
दलाग्ने वसुदेवं च देवकीनन्दगोपतिम् ॥
यशोदां बलभद्रं च सुभद्रां गोपगोपिकाः ।
इन्द्रादीनपि वज्रादीन्पूजयेत्तदनन्तरम् ॥
मन्त्रेष्वेषु दशार्णोक्तान्प्रयोगान्विदधीत च" इति ॥
|
अङ्गषट्कपक्षे संनिवेशस्तन्त्रान्तर एवोक्तः--
"अग्न्यादिकोणेष्वभ्य[२]र्च्य हृदाद्यङ्गचतुष्टयम् ।
दिशासु नेत्रमभ्य[३]र्च्य सर्वदिक्ष्वस्त्रमर्चयेत्" इति ॥
|
अथ संक्षेपेण पुरश्चरणकर्तृधर्माः ।
तन्त्रसारे--
"अधःशायी हविष्याशी मौनी चैव जितेन्द्रियः ।
असूयादम्भरहितः पुरश्चरणमाचरेत्" इति ॥
|
व्यासः--
"क्षीराहारी फलाशी वा शाकाहारी हविष्य[४]भुक् ।
भिक्षाशी वा जपं कुर्याज्ज[५]पं चा(पंश्चा)न्द्रायणादिकम् ॥
लवणं क्षारम[६]म्लं च गृञ्जनं कांस्यभोजनम् ।
ताम्बूलं च द्विभुक्तं च दुःसंवासं प्रमत्तताम् ॥
श्रुतिस्मृतिविरुद्धं च जपं रात्रौ च वर्जयेत्" इति ।
|
- ↑ ग. शाशस्त्रं ।
- ↑ ग. भ्यर्च्य हृ ।
- ↑ ग. भ्यर्च्य स ।
- ↑ ग. ष्यभाक् ।
- ↑ ख ज्जपचा ।
- ↑ क. मलबुं गृ ।