पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[पुरश्चरणपञ्चाङ्गानि]
७३१
संस्काररत्नमाला

 विनियोगलक्षणं तु मन्त्रतन्त्रप्रकाशे--

"धर्मार्थकाममोक्षाणां शास्त्रमार्गेण योजनम् ।
सिद्धमन्त्रस्य संप्रोक्तो विनियोगो विचक्षणैः ॥
पुरश्चणपूर्वोऽसौ विनियोगो विनिर्मितः ।
फलाय मन्त्रसेवा वा राजसेवा यथा तथा ॥
चरणात्पूर्वमेवासौ पुरश्चरणमुच्यते" इति ।

 एतेन विनियोगाख्यकर्मसामर्थ्यजनकक्रिया, ऐहिकामुष्मिकमन्त्रात्मशुद्धिहेतुक्रिया वा पुरश्चरणमित्युक्तम् ।

 अथ मूलमन्त्रोद्धारो मन्त्रस्यर्ष्यादिन्यासो ध्यानं जपसंख्या पूजाविधिश्चोच्यते--

"अथ पुत्रप्रदं वच्मि कृष्णमन्त्रमनुष्टुभम् ।
देवकीसुतवर्णान्ते गोविन्दपदमुच्चरेत् ॥
वासुदेवपदं प्रोच्य संबुद्ध्यन्तं जगत्पतिम् ।
देहि मे तनयं प्रोच्य कृष्ण त्वामहमीरयेत् ॥
शरणं गत इत्यन्तो मन्त्रो द्वात्रिंशदक्षरः ।
नारदो मुनिरस्योक्तोऽनुष्टुप्छन्दः समीरितम् ॥
देवः सुतप्रदः कृष्णः पादैः सर्वेण चाङ्गकम् ।

विजयेन युतो रथस्थितः प्रप्तमानीय समुद्रमध्यतः ॥
अददत्तनयान्द्विजन्मने स्मरणीयो वसुदेवनन्दनः ।

लक्षं जपोऽयुतं होमस्तिलैर्मधुर[१]सप्लुतैः ॥
अर्चा पूर्वोदिता चैवं मन्त्रः पुत्रप्रदो नृणाम्" । इति ।

 मन्त्रकौमुद्यामादौ कामबीजयोगोऽप्युक्तः । तत्रान्तरे त्वन्तेऽपि ।

 अत्र तर्पणमार्जनब्राह्मणभोजनान्यऽपि कार्याणि--

"जपो होमस्तर्पणं च मार्जनं विप्रभोजनम् ।
मन्त्रविद्भिस्तु पञ्चाङ्गं पुरश्चरणमीरितम्" ॥ इति मन्त्रकौमुद्याद्युक्तेः ।

 एतत्संख्याऽप्युक्ता तत्रैव--

"होमो जपदशांशेन तद्दशांशेन तर्पणम् ।
मार्जनं तद्दशांशेन तद्दशांशेन भोजनम्" इति ॥

 अङ्गन्यासचक्रादिकं तु गोपालदशाक्षरमन्त्रविधानवत् ।



  1. ख. ग. ङ. रसंप्लु ।