पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[दशदानमन्त्राः]
७०५
संस्काररत्नमाला

"ध[१]न्यं करोति दातारमिह लोके परत्र च ।
तस्मात्प्रदीयते धान्यमतः शान्तिं प्रयच्छ मे" इति धान्यस्य ॥
"प्रणवः सर्वमन्त्राणां नारीणां पार्वती यथा ।
तथा रसानां प्रवरः सदैवेक्षुरसो मतः ॥
मम तस्मात्परां शान्तिं ददस्व गुड सर्वदा" इति गुडस्य ॥
शिवनेत्रोद्भवं रूप्यं पितॄणामतिवल्लभम् ।
मम तस्य प्रदानेन शान्तिरस्तु सदैव हि" इति रौप्यस्य ॥
"यस्मादन्नरसाः सर्वे नोत्कृष्टा लवणं विना ।
तस्मात्तस्य प्रदानेन शान्तिरस्तु सदा मम" इति लवणस्य ॥

इति दानमन्त्राः ।

"पयस्विनी सवत्सा गौर्दातव्योपस्करान्विता ।
निवर्तनोन्मिता भूमिस्तदर्धेनोन्मिताऽथवा ॥

 तदर्धेन निवर्तनार्धेन ।

अथवा गृहपर्याप्ता प्रदातव्या सुलक्षणा ।
कृष्णा द्रोणत्रयमिता [२]अथवाऽऽढकसंमिताः ॥
प्रस्थद्वयमिता वाऽथ दाने देयास्तिलाः शुभाः ।
प्रदातव्यं निष्कमितं देयं निष्कार्धमेव वा ॥
तदर्धमथवा तस्याप्यर्धं देयं हिरण्यकम्[३]
सप्रस्थाढकमात्रं स्याद्घृतं प्रस्थमितं तु वा ॥
प्रादेशमात्रकलशद्वयमानं घृतं शुभम् ।
एककुम्भमितं वाऽपि दाने देयं सुनिर्मलम्[४]
वाससां त्रितयं दद्यादेकं वस्त्रमथापि वा ।
परिधानाय पर्याप्तमहतं सुदृढं मृ[५]दु ।
क्षौमं कार्पासमथवा वस्त्रं दाने प्रकीर्तितम् ।
तिलद्विगुणितं धान्यं गुडः प्रस्थत्रयोन्मितः ॥
प्रदेयं हेमवद्दाने स्वमानेनैव रौ[६]प्यकम् ।
गुडवल्लवणोन्मानं द्रव्यमानं प्रकीर्तितम्" इति ॥



८९
 
  1. ग. ङ. च. धान्यं ।
  2. अत्र "अथवा द्रोणसंमिताः" इति क. पुस्तके शोधितः पाठोऽस्ति ।
  3. ख. ड. च. म् । प्रा ।
  4. ख. ङ. च. म् । परि ।
  5. ङ. नवम् । च. मधु ।
  6. क. रूप्यकम् ।