पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[गर्भाधानप्रकरणम्]
६५३
संस्काररत्नमाला
( करणलग्नफलानि )
 

अथ करणफलम् ।

"बवे पुष्पवती नारी वन्ध्या वा विधवा भवेत् ।
बालवे पुत्रिणी नारी कौलवे प्रमदा भवेत् ।
तैतिले संमतवती गरे नारी विनश्यति ।
नष्टप्रजा वणिक्संज्ञे विष्ट्यां धनविवर्जिता ।
शकुने(नौ) च चतुष्पादे नारी वैधव्यमाप्नुयात् ।
नागे न रमते नारी किंस्तुघ्ने विधवा भवेत्" इति ।

[१]ति करणफलम् ।

अथ लग्नफलम् ।

 ज्योतिर्निबन्धे वसिष्ठः--

"व्यभिचारवती मेषे वृषभे परभोगिनी ।
मिथुने धनभोगाढ्या क[२]र्कटे व्यभिचारिणी ॥
पुत्राढ्या सिंहराशौ स्यात्कन्यायां श्रीमती तथा ।
विचक्षणा तुलायां तु वृश्चिके तु पतिव्रता ॥
दुश्चारिणी धनुष्पूर्वे परे चैव पतिव्रता ।
मकरे मानहीना च कुम्भे निर्धनवन्ध्यता ॥
मीने विलक्षणे लग्ने ग्रहसंस्था विवाहवत्" इति ॥

 धनुषः पूर्वभागे दुश्चारिणी परभागे पतिव्रतेत्यर्थः । ग्रहसंस्था ग्रहपूजा विवाहवत् । शक्त्या द्वित्रिगुणा भवतीत्यर्थः ।

 ज्योतिर्निबन्धे वाराहे तु--

"आत्मघ्नी भ्रूणहा मेषे वृषे पुत्रवती भवेत् ।
द्वंद्वे कन्या प्रसूर्नारी मृतापत्या च कर्कटे ॥
सिंहे वैधव्यमाप्नोति कन्यायां स्त्रीप्रसूर्भवेत् ।
तुलायां बहुपुत्राढ्या दुष्टकर्मरताऽलिनि ॥
चापे पुत्रधनाढ्या स्यान्मृगे दुश्चारिणी भवेत् ।
सकृत्प्रजावती कुम्भे मीने चाल्पप्रजा भवेत्" इत्युक्तम् ॥

 अलिर्वृश्चिकः । अलिनीत्यार्षप्रयोगः । अत्रापि शुक्लकृष्णपक्षान्तर्गतत्वेन पूर्ववद्व्यवस्था ज्ञेया । इति लग्नफलम् ।


  1. ङ. च. ति । अथ तिथिनक्षत्रादिसंधिफलम् 'दुर्भगा सर्वसंधिषु' इति । अथ लग्न ।
  2. ग, कर्के च ।