पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२
[परिस्तरणकुशास्तरणादौ नियमः]
भट्टगोपीनाथदीक्षितविरचिता--

भवन्ति प्रागग्रा एव दक्षिणा उत्तराश्च । प्रागुदगग्रा इत्यत्र प्रत्येकमग्रशब्दः परिसमाप्यते, प्रागग्रा उदगग्राश्चेति । यदि परिस्तरणदर्भाः प्रागुदगग्रा भवन्तीत्येतस्मिन्पक्ष इत्यर्थः । तत्र दक्षिणान्दर्भान्पूर्वापरेभ्यो दर्भेभ्य उपरिशयान्करोति । उत्तरांश्च दर्भानधरा[१]नधःशयान्करोतीत्यर्थः । अत्र दर्भैरिति वचनादेकैकस्मिन्भागे चत्वारश्चत्वारो दर्भा आचारात् । न्यायेन तु बहुत्वं त्रित्वे पर्यवस्यतीति वैजयन्त्याम् ।

 परिस्तरणदेशावधिमाह कश्यपः--

"दशाङ्गुलप्रमाणेन परिस्तीर्य कुशान्क्रमात्" इति ।

 स्मृत्यन्तरे तु पञ्चाङ्गुलः परिस्तरणदेशावधिरुक्तः--

"त्रिभिश्चैव चतुर्भिश्च पञ्चभिः षड्भिरङ्गुलैः ।
सेचनं परिधींश्चैव स्तरणं पूजनं तथा" इति ।

 तेनात्र विकल्पः । अ[२]त्राग्निक्षेत्रं बाह्यमेखला वाऽपादानावधिर्द्रष्टव्यः ।

 ततो ब्रह्मायतने कुशास्तरणादि । तदुक्तं गृह्ये--

 "दक्षिणेनाग्निं ब्रह्मायतने दर्भान्सं स्तीर्य मयि गृह्णामि यो नो अग्निरिति द्वाभ्यामात्मन्नाग्निं गृहीत्वोत्तरेणाग्निं दर्भान्सं स्तीर्य यथार्थं द्रव्याणि प्रयुनक्ति" इति ।

 दक्षिणेन परिस्तीर्णमग्निं ब्रह्मण आयतन उपवेशनदेशे दर्भान्सम्यग्बहुलानस्तीर्त्वा मयि यो नो अग्निरिति द्वाभ्यामात्मीयमग्निमात्मनि गृहीत्वा तथा संकल्प्य जपित्वोत्तरेणाग्निं दर्भान्सम्यग्बहुलान्स्तीर्त्वा यथार्थं यथाप्रयोजनं द्रव्याणि प्रयुनक्तीत्यर्थः । मयि यो न इत्यग्निं हृदि स्थितं द्वाभ्यां दर्भाभ्यां संस्थाप्येत्यात्मन्नग्निं गृहीत्वेत्यस्यार्थो गृह्यकारिकाकृता प्रदर्शितः स भाष्यविरोधादुपेक्ष्यः । आत्मन्यग्निग्रहणसमये सकुशं दक्षिणहस्तं हृदि धृत्वेति प्रयोगान्तरे यदुक्तं तत्र मूलं चिन्त्यम् । यद्यपि गृह्ये बर्हिर्नोक्तं तथाऽपि श्रौते दर्शनाच्छिष्टसमाचाराच्च ग्राह्यम् ।

 तत्प्रमाणे विशेषः स्मृत्यन्तरे--

"यज्ञियानां तृणानां तु अग्रे प्रादेशमात्रतः ।
प्रच्छिद्य प्रतिगृह्णीयान्मुष्टिमात्रं तु बर्हिषि" इति ॥

 मुष्टिमात्रमेकहविष्केषु स्थालीपाकादिकर्मसु । अनेकहविष्केषु तु सर्वेषां हविषामासादनं यथा भवति तथा पर्याप्तं बर्हिर्ग्राह्यम् । "अर्थात्परिमाणम्" इति कात्यायनोक्तेः ।


  1. ग. ङ. रान्क ।
  2. क. अथाग्नि ।