पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[पार्वणस्थालीपाकः]
६४१
संस्काररत्नमाला
( दर्शपूर्णमासस्थालीपाकप्रयोगः )
 

त्तरार्धपूर्वार्धे जुहोति । अग्नये स्विष्टकृत इदं न मम । अन्वारम्भो न वा । ततो मेक्षणमग्नौ प्रक्षिपेत् । न वा प्रक्षेपः ।

 ततः परिस्तरणानि विसृज्य व्यस्तसमस्तव्याहृतिभिश्चतस्रः प्रायश्चित्ताहुतीर्हुत्वोत्तरं परिषेकं कृत्वा संस्थाजपेनाग्निमुपस्थाय तं संपूज्य ललाटे विभूतिं धृत्वा भूयसीं दक्षिणां ब्राह्मणेभ्यो दत्त्वा ब्राह्मणान्संभोज्य विष्णुं संस्मरेत् । नात्रर्षभदानम् । समिदभ्याधानादिः प्रयोगः प्रदर्शितप्रयोगप्रकारद्वयेऽपि समानः । "आग्नेयेन स्थालीपाकेन यजते" इति पुनर्वचनाज्ज्ञापकात् । "अत ऊर्ध्वं दक्षिणावर्जमुपोषिताभ्यां पर्वसु कार्यः" इत्यापस्तम्बोक्तेश्च । एवमेव दर्शे । अत्र संकल्पात्पूर्वं चेत्स्त्रीरजस्वला तदा द्वितीयादिनिषिद्धव्यतिरिक्तपञ्चमादिदिवसे द्व्यहकालं सद्यस्कालं वाऽन्तरितं पौर्णमासस्थालीपाकं कुर्यात् । प्रथमदर्शपूर्णमासस्थालीपाकयोराशौच आरम्भो न भवति । न चासगोत्रेण कारणीयावेताविति वाच्यम् । प्रथमप्रयोगे मुख्यद्रव्यालाभेनानारम्भ इव मुख्यकर्तुरधिकाराभाववशेनानारम्भस्यैव युक्तत्वात् । दर्शस्थालीपाकस्त्वन्तरितोऽपि द्व्यहकाल एव कार्यः । अनेकभार्यस्य विद्यमानासु भार्यासु मध्ये ज्येष्ठा चेद्भार्या संकल्पात्पूर्वं रजस्वला तदा स्थालीपाकः पञ्चमादिदिवसेष्वेव कार्यः । संकल्पोत्तरं रजस्वला चेत्तदा तां गृहान्तरे संस्थाप्य स्थालीपाकः स्वकाल एव कर्तव्यः । प्रथमे प्रयोगे तु संकल्पादुत्तरमपि सर्वासामसर्वासां वा पत्नीनां रजोदर्शने दर्शपूर्णमासौ नैव भवत इति केचित् । भवत इत्यन्ये ।

 यदि विवाहोत्तरं दर्शपूर्णमासस्थालीपाकयोरनुष्ठानं न कृतमनन्तरमग्निविच्छेदः, बहुकालोत्तरं पुनः संधानं यदा क्रियते तदा दर्शपूर्णमासस्थालीपाकयोरारम्भकाले रजोदोषप्रसक्तिः । यदा वा दशवार्षिक्यादिवधूलाभे विवाहकालेऽपि रजोदोषप्रसक्तिस्तत्र प्रथमारम्भो न भवति । एवमाग्रयणस्थालीपाकादिष्वपि ।

 यदि स्वकाले दर्शपूर्णमासस्थालीपाकावनारब्धौ तदा विभ्रष्टेष्टिदेवतोद्देशेन स्थालीपाकाञ्श्रपयेत् । श्रपणकाले प्रथमतृतीयचर्वोरुपरि गतं मण्डमादायैन्द्रे चरौ प्रक्षिपेत् ।

 तत आपूर्विकतन्त्रेणैवाऽऽज्यसंस्कारादि परिषेकान्तं कृत्वा तूष्णीं समिधमाधाय, 'ॐ अग्नये स्वाहा । ॐ इन्द्राय स्वाहा । ॐ सोमाय स्वाहा' इत्याहुतित्रयं हुत्वा स्विष्टकृदाद्युत्तरं तन्त्रमापूर्विकधर्मेण कुर्यात् ।