शाकलेन तु पार्वणस्थालीपाकाग्रयणकर्मणोरपि क्रियोक्ता--
"स्थालीपाकद्वयं कुर्यात्तथैवाऽऽग्रयणं च हि । |
भारद्वाजीयपितृमेधसूत्रेऽपि--
"दारकर्मणि यद्यशक्त आत्मार्थमग्न्याधेयं कुर्याद्दर्शपूर्णमासावाग्रयणं |
अर्धाधानिनाऽपि दर्शपूर्णमासस्थालीपाकौपासनहोमा न कर्तव्या इति केचित् । कर्तव्या इत्यन्ये ।
अथ प्रयोगः ।
पाणिग्रहणोत्तरं गृहप्रवेशनीयात्प्रागनन्तरं वा यावज्जीवमस्तमितनक्षत्रदर्शनप्रदोषान्यतमे मुख्यकाले चतुर्धा विभक्ताया रात्रेराद्यभागात्मके गौणकाले वा सायंहोमः ।प्रातर्होमस्तूषःपुरोदयोदितपक्षिवाक्प्रवदनकालान्यतमे मुख्यकाले पञ्चधा विभक्तदिवसस्य प्रथमभागद्वयात्मके गौणकाले वा । मुख्यकाल एव प्रथमारम्भ इति केचित् । गौणकालेऽपीत्यन्ये । वस्तुतस्तु गौणकालो विशेषतो विहित एव ग्राह्यः । अन्यथा तृतीयादिषु प्रथमपार्वणस्थालीपाकानुष्ठानापत्तेः । न ह्यत्र गौणकालस्य विशेषतो विधानं किं तु स्वकालादुत्तरो गौण इति सामान्यतो विधानम् । औपासनहोमादौ त्वस्ति विशेषतो गौणकालस्य विधानम्--
"प्रदोषान्तो होमकालः[१] सायं संगवान्तः प्रातः" इति । |
अतः प्रथमोपासनहोमः प्रदोषसंगवात्मके विहिते गौणकालेऽपि भवति । सुदर्शनेनाप्येतदभिप्रेत्यैवेत्थमुक्तम्--यदि नव नाड्यो नातीताः स्युस्तदा प्रथमौपासनारम्भ इति । सायमेवोपक्रमः । सायंप्रातरेकमेव द्रव्यमेक एव कर्ता । पर्वणि स्वयमेव जुहुयात् ।
सपत्नीकः कर्ताऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं सत्यधिकारे यावज्जीवं सायंप्रातरौपासनहोमौ होष्यामीति संकल्पं कुर्यात् । अग्निहोत्रहोमारम्भोत्तरमर्धाधानिनाऽप्यौपासनहोमो न कार्य इत्येतन्मतमेव मया स्वी क्रियत इति निश्चिते तु अग्निहोत्रहोमारम्भपूर्वतनकालपर्यन्तं सायंप्रातरौपासनहोमौ होष्यामीति संकल्पे विशेषः । वस्तुतः करणपक्ष एव युक्तः ।
ततो गणेशं संपूज्य पुण्याहादि वाचयित्वाऽग्निसूर्यप्रजापतयः प्रीयन्तामिति
- ↑ ख. ग. ङ. च. लः स ।