पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
५८७
संस्काररत्नमाला
( विवाहनिमित्तेन वर्ज्यानि )
 

 यद्यपि स्वधा पितृभ्य ऊर्ग्भवेतिस्वधाशब्दवत्पितृकर्मेष्ट्यादावपि वर्तते तथाऽपि तत्र निषेधो न प्रवर्तते श्रौतस्य प्राबल्यात् । एवमाहिताग्निकर्तृकपिण्डपितृयज्ञेऽपि ।

 यद्यपि देवकोत्थापनावधिककर्मण्यमान्तर्भावस्यैव निषेधेन देवकोत्थापनस्यामादिवसात्प्रागेव जायमानत्वेन निषेधावसरो नास्ति तथाऽपि केनचित्प्रतिबन्धेन देवकोत्थापनमात्रं न जायते तदैतद्द्रष्टव्यम् ।

 संग्रहे--

"नित्यश्राद्धं चाध्ययनं स्नानं शीतेन वारिणा ।
प्रारब्धे मङ्गले नैव मण्डपोद्वासनावधि" इति ॥

 नित्यश्राद्धं प्रात्यहिकं श्राद्धम् ।

 गार्ग्यः--

"नान्दीश्राद्धे कृते पश्चाद्यावन्मातृविसर्जनम् ।
दर्शश्राद्धं क्षयश्राद्धं स्नानं शीतोदकेन च ॥
अपसव्यं स्वधाकारं नित्यश्राद्धं तथैव च ।
ब्रह्मयज्ञं चाध्ययनं नदीसीमाविलङ्घनम् ॥
उपवासं व्रतं चैव श्राद्धभोजनमेव च ।
नैव कुर्युः सपिण्डाश्च मण्डपोद्वासनावधि" इति ॥

 ([१] संस्कारदर्पणे स्मृत्यन्तरे--

"मृत्पुण्ड्रं भस्मपुण्ड्रं च स्नानं शीतोदकेन च ।
नैव कुर्युः सपिण्डाश्च मण्डपोद्वासनावधि" इति ॥

 वेदान्तश्रवणगीतापाठादिकमपि शिष्टा वर्जयन्ति । )

 स्मृत्यन्तरे--

"विवाहे मेखलाबन्धे वर्षमर्धं तदर्धकम् ।
गेहारम्भप्रवेशौ च वर्जयेत्सर्वदा बुधः" इति ॥

 नात्र यथासंख्यमिति केचित् ।

 बृहस्पतिः--

"तीर्थे विवाहे यात्रायां सङ्ग्रामे देशविप्लवे ।
नगरग्रामदाहे च स्पृष्टास्पृष्टिर्न दुष्यति" इति ॥

 ([२]संग्रहे--

"विवाहादिकमाङ्गल्ये प्रतिष्ठायां महोत्सवे ।
आसमाप्ति न गन्तव्यं सूतके मृतकेऽपि च" इति ॥)



  1. धनुश्चिह्नान्तर्गतं क. पुस्तके नास्ति ।
  2. धनुश्चिह्नान्तर्गतं क. पुस्तके नास्ति ।