पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४८
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( कन्यादानम् )
 

त्यनुवाकं सि हे व्याघ्र इत्यनुवाकमस्मे देवास इति चतुरो मन्त्रांश्च पठेयुः । तत्तदन्तेऽक्षतारोपणं चाऽऽचारात् ।


अथ कन्यादानम् ।

 अत्र रात्रावपि स्नानमाह वृद्धयाज्ञवल्क्यः--

"ग्रहणोद्वाहसंक्रान्तियात्रार्तिप्रसवेषु वै ।
स्नानं नैमित्तिकं ज्ञेयं रात्रावपि तदिष्यते" इति ॥

 व्यासः--

"महानिशा तु विज्ञेया मध्ययामद्वयं निशि ।
तस्यां स्नानं न कुर्वीत काम्यनैमित्तिकादृते ॥
प्रदोषे पश्चिमे यामे दिनवत्स्नानमाचरेत्" इति ॥

 मध्ययामयोस्तु विशेषमाहात्रिः--

"रात्रौ स्नानं यदि भवेत्पश्यन्नग्निं समाचरेत् ।
स्वर्णाङ्गुलिकरो विप्रो वह्निना वा विना चरेत्" इति ॥

 प्रयोगदर्पणे स्मृत्यन्तरे--

"कन्यादानं निशीथे चेद्दिवा भोजनमिष्यते ।
काले स्नानं प्रकुर्वीत कन्यां दद्याद्वराय तु" इति ॥

 विवाहे प्रधानद्वयं कन्यादानं पाणिग्रहणं च । आद्यं कन्यापितरं प्रति । कन्यादानस्य प्राधान्यं तु--

"ब्राह्मे विवाहे शक्तिविषयेणालंकृत्य दद्यात्" इति धर्मसूत्रात्
"अलंकृत्य कन्यामुदकपूर्वां दद्यादेष ब्राह्मो विवाहः" ।

 इत्याश्वलायनसूत्राच्च दानविवाहशब्दयोः सामानाधिकरण्यप्रतीतेः ।

 पाणिग्रहणस्य तु--

"पाणिग्रहणादिरग्निस्तमौपासनमित्याचक्षते" इति सूत्रात्
"पाणिग्रहणादधि गृहमेधिनोर्व्रतम्" ।

 इति धर्मसूत्राच्च प्राधान्यं ज्ञेयम् । चौलकर्मोपनयनगोदानविवाहकालानभिधाय तेषां पुरस्ताच्चतस्र आज्याहुतीर्जुहुयादित्येतदाश्वलायनसूत्रमप्यत्र मानम् । अन्यथा तच्छब्देन परामृष्टाद्विवाहात्पूर्वमुक्तस्य होमस्यासंगत्यापतेः । न हि कन्यादानात्पुरस्तादेव ता आहुतयः सन्ति ।