पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४४
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( गोरीहरयोः पूजनम् )
 

 ततो दाता गन्धमाल्यवस्त्रयुग्मोपवीतयुग्माभरणादिभिर्यथाविभवं पूजयित्वा माषविकारभूतव्यञ्जनसहितान्नेन तं भोजयेत् ।

 विष्टरलक्षणं परिशिष्टे--

"पञ्चाशता भवेद्ब्रह्मा तदर्धेन तु विष्टरः ।
ऊर्ध्वकेशो भवेद्ब्रह्मा लम्बकेशस्तु विष्टरः ।
दक्षिणावर्तको ब्रह्मा वामावर्तस्तु विष्टरः ।
पञ्चविंशतिदर्भाणां वेण्यग्रे ग्रन्थिभूषिता" इति ।

 पञ्चाशदर्धं पञ्चविंशतिः । तावत्संख्यैर्दर्भैर्विष्टरो भवतीत्यर्थः । केशा अग्राणि निर्माणकाल ऊर्ध्वानि यस्य । लम्बानि लम्बमानान्यधोमुखानि निर्माणकालेऽग्राणि यस्येति । मधुपर्के दध्यलाभे क्षीरम् । मध्वलाभे सर्पिर्गुडो वा । सर्वाभाव उदकमिति ज्ञेयम् ।

इत्याश्वलायनीयो मधुपर्कः ।


अथ गौरीहरयोः पूजनम् ।

 अथ कन्या स्नाता परिहिताहतवस्त्रा गृहान्तः पूजिते स्था[१]ने विदिक्षु मृन्मयैस्त्रिभिस्त्रिभिः कलशैः पिधानोत्तरैः श्रेणीः कृत्वा समन्तात्सूत्रेणाऽऽवेष्ट्य तन्मध्ये सूत्रवेष्टितोपला(ल)सहितां दृषदं निधाय तदुपरि श्वेततण्डुलाक्षतपुञ्जे पङ्कजं कृत्वा तत्र पलाद्यन्यतममितां ब्राह्मणकृताग्न्युत्तारणसंस्कारप्राणप्रतिष्ठां हैमीं गौरीहरप्रतिमां स्थापयित्वा तदग्रे पलद्वयतदर्धतदर्धान्यतमपरिमितरजतनिर्मितं ब्राह्मणकृताग्न्युत्तारणसंस्कारप्राणप्रतिष्ठं नन्दिनं संस्थाप्य कुङ्कुमादिना भित्त्यादौ गौरीहरौ लेखयित्वा--

"सिंहासनस्थां देवेशीं सर्वालंकारसंयुताम् ।
पीताम्बरधरं देवं चन्द्रार्धकृतशेखरम् ।
करेणाधः सुधापूर्णं कलशं दक्षिणेन तु ।
वरदं चाभयं वामेनाऽऽश्लिष्य च तनुप्रियाम्" इति ध्यात्वा,
"गौरीहरौ महेशानौ सर्वमङ्गलदायकौ ।
पूजां गृह्णीतां देवेशौ मङ्गलं कुरुतां सदा"

 इति मन्त्रेणाऽऽवाहनादिषोडशोपचारैः सौभाग्यादिकामनया पूजयित्वा नन्दिनं पूजयेत् । विसर्जनं तु विवाहान्त आचारात् ।



  1. क. देशे ।