पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४२
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( मधुपर्कः )
 

अथ मधुपर्कः ।

 स च वरशाखया कर्तव्य इत्युक्तं गृह्यपरिशिष्टे--

"वरस्य या भवेच्छाखा तच्छाखागृह्यचोदितः ।
मधुपर्कः प्रदातव्यो ह्यन्यशाखेऽपि दातरि" इति ।

 अत्र वर इत्यर्च्यस्योपलक्षणम् । जयन्तेन तु यजमानशाखयैव मधुपर्क उक्तः । वस्तुतस्तु सत्याषाढसूत्रानुसारिभिः सूत्रोक्त एव मधुपर्कः कार्य इति युक्तं प्रतिभाति । मधुपर्कप्रयोगस्तु समावर्तन उक्तः । आगतं कन्यार्थिनमिमं वरं मधुपर्केणार्हयिष्य इति संकल्पवाक्ये विशेषः । यदि तु गृह्यपरिशिष्टमेव शिष्टैराचारानुरोधात्स्वी क्रियते तदाऽऽश्वलायने वरे तच्छाखीयमधुपर्कविधेरपेक्षितत्वात्तत्प्रयोग उच्यते । तत्रायं क्रमः । पाद्यार्थमर्घ्यार्थं मन्त्रवत्त्रिराचमनजलार्थं शुद्ध्यर्थाचमनीयार्थं च पात्रचतुष्टयं मधुयुक्तदध्याख्यमधुपर्कसहितं कांस्यपात्रं पञ्चविंशतिदर्भैरधोमुखाग्रैर्वामावर्तेन यथा वेणी भवति तथाऽग्रे गुम्फितैरग्रे ग्रन्थियुतैर्विष्टरं च संपाद्याऽऽगतं कन्यार्थिनं स्नातकं वरं मधुपर्केणार्हयिष्य इति संकल्प्योपकल्पितं विष्टरं--विष्टरो विष्टरो विष्टर इति त्रिर्निवेद्य प्रतिगृह्यतामित्यासनार्थं वरहस्ते दद्यात् । वरः प्रतिगृह्णामीति प्रतिगृह्य,

 अहं वर्ष्मेत्यस्य वामदेवो विष्टरोऽनुष्टुप् । विष्टरोपवेशने विनियोगः । 'ॐ अहं वर्ष्म सजातानां० भिदासति' इत्युदगग्रे विष्टर उपविशेत् । विष्टरं मन्त्रेण पद्भ्यामाक्रम्य तूष्णीमुपविशेद्वा ।

 ततोऽर्चकेन--पाद्यं पाद्यं पाद्यमिति त्रिर्निवेदितं पाद्यं वरः प्रतिगृह्णीयात् । सर्वत्र निवेदनानन्तरमर्चकः प्रतिगृह्यतामिति वदेत् । मधुपर्कप्रतिग्रहव्यतिरिक्तस्थले प्रतिगृह्णामीत्यर्च्यः ।

 ततोऽर्चकस्तेनोदकेन वरस्य दक्षिणसव्यौ पादौ क्रमेण प्रक्षालयेत् । ततो वरो लौकिकजलेनाऽऽचम्य गन्धमाल्यफलादिसंयुक्तमर्घ्यमर्घ्यमर्घ्यमिति त्रिर्निवेदितमर्घ्यमञ्जलिना प्रतिगृह्य तूष्णीं निनयेत् ।

 तत आचमनीयमाचमनीयमाचमनीयमित्यर्चकेन त्रिर्निवेदितमाचमनीयं प्रतिगृह्य तस्यैकदेशं गृहीत्वा, अमृतोपस्तरणमसीत्यस्य वामदेवो जलं यजुः । जलपाने विनियोगः । 'ॐ अमृतोपस्तरणमसि' इति पीत्वा लौकिकजलेनाऽऽचामेत् । मधुपर्को मधुपर्को मधुपर्क इत्यर्चको मधुपर्कं निवेद्य प्रतिगृह्यतामिति वदेत् ।

 ततोऽर्च्यः--मित्रस्य त्वेत्यस्य वामदेवो मधुपर्को विराड्यजुर्वा । मधुपर्कावेक्षणे विनियोगः । 'ॐ मित्रस्य त्वा चक्षुषा प्रतीक्षे' इत्यानीयमानं मधुपर्क