पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
५१३
संस्काररत्नमाला
( वरलक्षणम् )
 

पराशरोऽपि--

"कन्यां ददाति वृद्धाय नीचाय धनलिप्सया ।
कुरूपाय कुशीलाय स प्रेतो जायते नरः" इति ।

 ([१] ब्रह्मवैवर्तेऽपि--

"वराय गुणहीनाय वृद्धाय ज्ञानिने तथा ।
दरिद्राय च मूर्खाय रोगिणे कुत्सिताय च ।
अत्यन्तकोपयुक्ताय चात्यन्तदुर्मुखाय च ।
पङ्गुलायाङ्गहीनाय चान्धाय बधिराय च ।
जडाय चैव मूकाय क्लीबायात्यन्तपापिने ।
ब्रह्महत्यां लभेत्सोऽपि यः स्वकन्यां प्रयच्छति ।
शान्ताय गुणिने चैव यूने च विदूषेऽपि च ।
वैष्णवाय सुतां दत्त्वा दशवापीफलं लभेत् ।
यः कन्यापालनं कृत्वा करोति विक्रयं यदि ।
विपदा धनलोभेन कुम्भीपाकं स गच्छति ।
कन्यामूत्रं पुरीषं च तत्र भक्षति पातकी ।
कृमिभिर्दशितः काकैर्यावदिन्द्राश्चतुर्दश ।
तदन्ते व्याधयोनौ च लभेज्जन्म सुनिश्चितम् ।
विक्रीणाति मांसभारं वहत्येव दिवानिशम्" इति ।

 वृद्धपदमत्यशक्तपरतालक्षकम् । ज्ञानिपदं विवाहानिच्छुपरतालक्षकम् । पङ्गुलः पादहीनः । अत्यन्तपापिने महापातकयुक्तायेत्यर्थः। अपिशब्दात्प्रतिग्रहीतुरपि दोषः। वैष्णवाय विष्णुभक्ताय । विष्णुशब्दः शिवाद्युपलक्षकः । विपदा विपद्रूपहेतुना धनलोभेन चेत्यर्थः ।)

याज्ञवल्क्यः--

"एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः ।
यत्नात्परीक्षितः पुंस्त्वे युवा धीमाञ्जनप्रियः" इति ।

 अत्र भ्रातृमत्त्वानन्यपूर्वत्वयवीयस्त्वरूपगुणत्रयभिन्नाः सर्वे गुणा अतिदिश्यन्ते । सवर्णः समानवर्णः । असपिण्डादिगुणातिदेशादुभयतःसापिण्ड्यनिवृत्तिरभिप्रेता । तेन वरनिरूपितं कन्यायां कन्यानिरूपितं च वरे पृथगेव सापिण्ड्यं न तु व्यासज्यवृत्ति उभयनिरूपितमेकमिति नवीनाः ।



६५
 
  1. धनुश्चिह्नान्तर्गतो ग्रन्थः ख. पुस्तके नास्ति ।