पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
५०३
संस्काररत्नमाला
( दत्तापहारः )
 

 अत एव प्रतिश्रुत्यवसरे स्मर्यते शिष्टैः--

'अव्यङ्गेऽपतितेऽक्लीबे दशदोषविवर्जिते ।
इमां कन्यां प्रदास्यामि देवाग्निद्विजसंनिधौ' इति ।

 दश दोषाः संग्रह उक्ताः--

'उन्मत्ता वृत्तिहीनाश्च तथाऽपस्मारदूषिताः ।
दूरस्थाः कुष्ठिनो मूर्खा मोक्षमार्गानुसारिणः ।
शूरा अवेद्या निवृत्ता दशदोषयुता वराः ।
तथा षण्ढाश्च पतिताश्चक्षुःश्रोत्रविवर्जिताः ।
वर्जनीयाः प्रयत्नेन कन्यादात्रा न संशयः' इति ।

 निवृत्ता विवाहात् ।

 यत्तु मनुवचनम्--

'एतत्तु न परे चक्रुर्नापरे जातु साधवः ।
यदन्यस्याभ्यनुज्ञाय नरस्यान्यस्य दीयते' इति ।

 यच्च नारदवचनं--

'सकृदंशो निपतति सकृत्कन्या प्रदीयते' इति ।

 तद्दोषरहितवरविषयम् । दोषरहितवरतः कन्याया अपहारे दण्ड उक्तो याज्ञवल्क्येन--

'सकृत्प्रदीयते कन्या हरंस्तां चोरदण्डभाक्' इति ।

 तां कन्यां हरतश्चोरस्य यथा दण्डस्तथैव दण्ड इत्यर्थः ।

नारदोऽपि--

'दत्तां न्यायेन यः कन्यां वराय न ददाति चेत् ।
अदुष्टश्चेद्वरो राज्ञा स दण्ड्य[१]स्तत्र चोरवत्' इति ।

 अदुष्टश्चेदित्यनेन दुष्टाय न देयेति गम्यते ।

 उक्तं च गौतमेन--

'प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात्' इति ।

 दुष्टेनापि यदि पाणिग्रहणं सप्तपद्यन्तं कृतं तदनन्तरं ततो नैव ग्राह्या ।

 अत एव नारदः--

'स्त्रीपुंसयोस्तु संबन्धाद्वरणं प्राग्विधीयते ।
वरणाद्ग्रहणं पाणेः संबन्धोऽयं त्रिलक्षणः ।



  1. ड. ण्ड्यश्चोरदण्डव ।