पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
४९३
संस्काररत्नमाला
( समानक्रियाविचारः )
 

 भातृयुग्मस्य स्वसृयुग्मस्य भातृस्वसृयुग्मस्य चैकस्मिन्नहन्येकस्मिन्मण्डपे मण्डनं न कुर्यादित्यर्थः । एतच्च वचनं सारावलीवचनेन समानोदरविषयनिषेधस्य प्राप्तत्वात्तद्भिन्नविषयम् ।

 मदरत्ने नारदः--

" एकमातृजयोरेकवत्सरे पुरुषस्त्रियोः ।
न समानक्रियां कुर्यान्मातृभेदे विधीयते" इति ।

 न समानक्रियामित्यनेन द्वयोश्चौले द्वयोव्रतबन्धौ द्वयोर्विवाहौ वा न कुर्यादिति बोध्यते । मातृभेदे विधीयत इत्येतेनैकस्य पुंसो विवाहद्वयमप्येकदिने निषिद्धं मातृभेदाभावात् ।

 अन्यच्च[१] ज्योतिर्ग्रन्थे--

"नैकस्मिन्वत्सरे कार्यौ गेहोद्वाहौ कथंचन" इति ।

 गे[२]हशब्देन गेहारम्भः प्रवेशश्च गृह्यते ।

विशेषमाह स एष--

"पुत्रोद्वाहात्परं पुत्रीविवाहो न ऋतुत्रये ।
न कार्यं व्रतमुद्वाहान्मङ्गले नाप्यमङ्गलम् ।
विवाहश्चैव कन्यानां षण्मासाभ्यन्तरे यदि ।
असंशयं त्रिभिर्वर्षैस्तत्रैका विधवा भवेत्" इति ।

 मङ्गलं विवाहादि । अमङ्गलं श्राद्धादि ।

 ज्योतिर्निबन्धे--

"मातृयज्ञक्रियापूर्वं ज्येष्ठं कृत्वा तु मङ्गलम् ।
ऋतुत्रयं पुनर्यावन्न कुर्याल्लघुमङ्गलम्" इति ।

 ज्येष्ठमङ्गलं(ले) विवाहोपनयने । लघुमङ्गलं चौलादि । अनेन वचनेन समावर्तनमपि निषिध्यते तस्यापि लघुमङ्गलत्वादिति केचित् । अन्ये तु पित्रादिकर्तृकपुत्रादिसंस्कारपरं न तु स्वकर्तृकस्वसंस्कारपरम् । समावर्तनस्य स्वकर्तृकत्वान्नायं निषेधस्तत्रेति प्राहुः । अत्र प्रमाणाभावाच्चिन्त्यमेतत् । एवं च विवाहोत्तरमुपनयनोत्तरं वा, ऋतुत्रयादर्वाक्चौलं न कार्यमित्युक्तं भवति ।

 तथा च मदनरत्नेऽत्रिः--

"कुले ऋतुत्रयादर्वाङ्मण्डनान्न तु मुण्डनम् ।
प्रवेशान्निर्गमं चैव न कुर्यान्मङ्गलत्रयम् ।
पुत्रीपरिणयादूर्ध्वं पुत्रस्योद्वाहनक्रिया ।
न दुष्टा स्यान्मातृभेदे गृहभेदेऽपि चैव हि" इति ।



  1. क. ख. च- "नै ।
  2. ङ गृहारम्भः ।