पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९२
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( समानक्रियाविचारः )
 

"भोजनार्धे तु संभुक्ते यदि कश्चिन्म्रियेत वै ।
[१]र्वं भुक्तोच्छिष्टशेषं परित्यज्य समाहिताः ॥
आचम्य परकीयेण तोयेन शुचयो द्विजाः" इति ब्रह्मपुराणात् ।

 बह्वन्नसंभरणसंपादिनां धारणाशक्तावाह विष्णुः--

"न देवप्रतिष्ठाविवाहयोः पू[२]र्वसंभृतसंभारयोः" इति ।

 देवप्रतिष्ठाविवाहयोः[३] पूर्वसंभृतसामग्रीकयोरुपक्रमात्प्रागपि तत्कर्तुराशौचं न भवतीत्यर्थः । एतदुक्तं भवति, यावति काले संभृतबहुसंभारधारणं कर्तुं शक्यते तावत्कालमध्ये प्रतिष्ठाविवाहाङ्गभूतं कालान्तरं यत्र न लभ्यते तद्विषय एवायं संकल्पात्प्रागाशौचाभाव इति[४]

 सिङ्गाभट्टीये बौधायनः--

"स्थालीपाकात्पूर्वं वध्वा यदि मृतिः स्यात्तामन्वारभ्य स्थालीपाकं कृत्वौपासनाग्निना दाहयेद्वरस्य मातापित्रोर्यदि मृतिः स्यादुत्तरशेषं समाप्य पश्चात्पैतृमेधिकमाचरेदसावेव ज्येष्ठश्चेत्कङ्कणं कन्याहस्ते बद्ध्वा तद्विपरीतमाचरेत्" इति ।

इति विवाह आशौचनिर्णयः ।

अथ समानक्रियाविचारः ।

सारावल्याम्--

"एकोदरप्रसूतानामेकस्मिन्वत्सरे सदा ।
विवाहं नैव कुर्वन्ति कुर्वन्ति तु ततोऽन्यथा" इति ॥

ज्योतिर्विवरणे--

"एकोदरयोर्वरयोरेकदिनोद्वाहतो भवेन्नाशः ।
नद्यन्तर एकदिने केऽप्याहुः संकटे च शुभम्" इति ।

 शार्ङ्गधरीयेऽपि--"नद्यन्तरेऽपि शुभदं पृथशैलरोधे" इति ।

स्मृत्यन्तरे--

"विवाहस्त्वेकजातानामेकस्मिन्नुदये कुले ।
नाशं करोत्येकवर्षे स्यादेका विधवा तयोः" इति ।

 उदयो लग्नम् ।

 पारिजाते गर्गः--

"भ्रातृयुग्मे स्वसृयग्मे भ्रातृस्वस्रोश्च युग्मके ।
न जातु मङ्गलं कार्यमेकस्मिन्मण्डपेऽहनि" इति ।



  1. ग. सर्वे ।
  2. ङ. पूर्वे सं ।
  3. क. ग. ङ. योः सं ।
  4. ग. ति । शिङ्गोभ ।